________________ दिवाकर कृता किरणावलोकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / 335 सत्त्वं सत्त्वगुणं, परिष्वजति आलिङ्गति, तावत् तावत्कालं, तेष्वेव अहङ्कारवृत्तिप्रधानगुणेष्वेव, गण्यते गणितो भवति बद्ध एव तावन्न मुक्त इत्यर्थः // 24 // रजस्तमोगुणपरिणामभूतं क्षुन्निद्रादिकं यथा न सम्यग्दर्शनोपयोगि तथान्यदपि रजस्तमोवृत्तमित्युपदर्शयति क्षुन्निद्राद्यनयोवृत्तमात्मभूतं विपश्चितः। न सम्यगदर्शनोपायि तथाऽन्यदपि कोऽत्ययः // 25 // क्षुन्निद्रादीति / 'क्षुन्निद्राद्यनयोः' इत्यस्य स्थाने 'क्षुन्निद्राद्यं यथा' इति 'क्षुन्निद्राद्यनयोः' इति वा पाठः सम्भाव्यते / यथा झुन्निद्रादिकं, विपश्चितः ज्ञानिनः; आत्मभूतं अनात्मा अप्यात्मतयाऽभिमन्यमानमात्मभूतं, वस्तुगत्याsनात्मस्वरूपं, क्षुनिद्राद्यनयोवृत्तमिति पाठे क्षुन्निद्गादि अनयोः रजस्तमसो वृत्तं वृत्तिस्वरूपं तथेत्युत्तरयोगाद् यथेति गम्यं, 'न सम्यग्दर्शनोपायि' इत्यस्य स्थाने 'न सम्यग्दर्शनोपायम्' इति पाठो युक्तः / न नैव, सम्यगदर्शनोपायम् सम्यग्दर्शनस्य साधनं नवा सम्यग्दर्शनकारणकं, तथा तद्वत्, अन्यदपि तद्भिन्नमपि सत्त्वादिगुणवृत्तं न सम्यग्दर्शनोपायम्, एतस्मिन् विषये, कोऽत्ययः किं वैषम्यम् न कोऽप्यत्यय इत्यर्थः // 25 // केवलज्ञानलक्षणाऽऽत्मख्यातिर्यस्य कस्याप्युत्पद्यमाना सकृदपि मुक्तये प्रभवतीत्याह सदाचारप्रवृत्तस्य क्रूरक्लिष्टक्रियस्य वा / सकृच्चाभ्युदिता ख्यातिनं च किञ्चिद् विशिष्यते // 26 // - सदाचारप्रवृत्तस्येति / सदाचारप्रवृत्तस्य शिष्टपुरुषाद्रियमाणसमीचीनाचारे प्रवृत्तस्य, वा अथवा, क्रूक्लिष्टक्रियस्य क्रूरा वध-बन्धनादिलक्षणा क्लिष्टा अतिप्रयाससाध्या क्रिया यस्य स क्रूरक्लिष्टक्रियस्तस्य, सकृच्च एकवारमपि, अभ्युदिता उत्पन्ना, ख्यातिः प्रधानात्मनोहेंदज्ञानं केवलज्ञानपर्यवसन्नम् ; न च नैव, किञ्चित् किमपि,, विशिष्यते विलक्षणम्, किन्तु समानैवेत्यर्थः // 26 //