________________ 334 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / कारणतया पञ्चविंशतितत्त्वज्ञानमन्तरेणैव वैराग्यं नोपादेयम्, तत्त्वज्ञानिनस्तु वैराग्यमयत्नोपनतमपि मुक्तावन्यथासिद्धमेव, तत्त्वज्ञानेनैव मुक्तेः संभवादित्यभिसन्धिः, स्वभावतः, करणग्रामतवृत्तिनिरोधो भविष्यतीति न तदर्थं परिश्रम इत्यत आहअहेतोरिति अहेतोः कारणमन्तरेण, पुरुषार्थोत्थिताः पुरुषोपभोगसम्पादनार्थमुद्यता:, गुणाः सत्त्वादयः, न हि नैव, निमीलन्ति विरतव्यापारा भवन्तीत्यर्थः // 22 // अविद्यान्धकारसद्भावे ज्ञानादिकमप्यकिञ्चित्करमित्याहज्ञान-प्रसादौ वैराग्यमित्यविद्यातमोजितम् / को हि रागो विरागो वा कुशलस्य प्रवृत्तिषु // 23 // ज्ञानप्रसादाविति / ज्ञानप्रसादौ सत्त्वगुणोद्भवौ ज्ञानप्रसादौ, वैराग्यं सात्त्विकं वैराग्यम् इति एतत्रितयम् , अविद्यातमोजितम् अविद्यालक्षणान्धकारेण जितं पराजितं स्वकार्यसाधनाय नालम् , तत्र हेतुमाह-को हीति हि यतः, प्रवृत्तिषु संसारोपादानकारणप्रयत्नेषु, कुशलस्य निपुणस्य, सततं संसारकारणमेवोपादानस्य, रागः विषयाभिलाषा, वा अथवा, विरागः अस्पृहा, कः न कश्चित् तस्मादविद्यान्धकारनिवर्तनमेव प्रथमतो न्याय्यं, तदन्तरेण ज्ञानादिकमकिञ्चित्करमेवेत्यर्थः // 23 // अहमित्यभिमानपरित्यागे सत्येव केवलज्ञानतो मुक्तिर्न त्वहमित्याभिमानिनः तदानीं सत्त्वगुणसमुत्पत्तिमपि ज्ञानं न केवलज्ञानं, यतः "एवं तत्त्वाभ्यासान्नास्मि नर्म नाहमित्यपरिशेषम् / विपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् // 15 // " इति साङ्ख्याचार्या इत्याशयं हृदि निधायाहयावद् रजस्तमोवृत्तिमहमित्यवमन्यते / परिष्वजति सत्त्वं च तावत् तेष्वेव गण्यते // 24 // यावदिति / यावत् यावत्कालं, रजस्तमोवृत्तिं रजोगुणसम्पृक्ततमो. गुणवृत्तिम् , अहमिति अहमित्याकारिकाम् , अवमन्यते अभिजानाति, च पुनः,