________________ दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / 333 प्रसभात् हठात् अङकुशः अकुश इव, यथा दानमदमत्तो गजोऽङ्कुशेन स्ववशे स्थाप्यते तथा दक्षिणान्तकर्मादिना बालिशजनो नियन्त्रितो भवति यज्ञादिकर्माणि तत्फलाभिलाषेण व्यापृतो भवतीत्यर्थः // 20 // "पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः / शिखी मुण्डी जटी वाऽपि मुच्यते नात्र संशयः // 14 // " इति वचनाद् यस्मिन्नेकस्मिन्नप्याश्रमे वर्तमानस्य मनुष्याधन्यतमयोनिसमुद्गतस्य नानात्मज्ञानवादिनोऽपि नवग्रहाद्यन्यतमग्रहाकलितवत्तत्कर्मोपभोगभाजो धर्मध्यानाद्यारूढतमारूढान्तःकरणवृत्तेर्मोक्षः स्यादेवेति साङ्ख्यगूढाशयाभिसन्धानमाश्रित्याह न ग्रहाः प्रतिबन्धाय नैकाय्यं वा प्रवृत्तये / तिर्यक्ष्वपि च सिद्धयन्ति व्यक्ता नानात्वबुद्धयः // 21 // न ग्रहा इति / ग्रहाः नीचस्थानस्थिताः सूर्य-चन्द्रादयः, प्रतिबन्धाय मोक्षावाप्तिप्रतिबन्धनाथ, न नैव भवन्ति, वा अथवा, ऐकाम्यम् एकस्मिन् विषये मनसः स्थिरीकरणम् , प्रवृत्तये मोक्षसाधननिष्पत्तिप्रयत्नाय, न न भवति, तत्र हेतुः तिर्यक्ष्वपि च चकारो हेत्वर्थे यस्मात् तिर्यग्गतिष्वपि कतिपये तिर्यञ्चः, व्यक्ता आविर्भूताः, नानात्वबुद्धयः नाना आत्मान इत्याकारकबुद्धिमन्तः, सिद्धयन्ति सिद्धिं मुक्ति प्राप्नुवन्तीत्यर्थः // 21 // यस्य वैराग्यं तस्य मुक्तिरिति वैराग्यमेव परमं मोक्षनिदानं न तु पञ्चविंशतितत्त्वज्ञानमित्याशङ्कानिवृत्तये त्वाह वैराग्यात् कारणग्रामे तन्निरोधे परिश्रमः। न ह्यहेतोनिमीलन्ति पुरुषार्थोत्थिता गुणाः // 22 // वैराग्यादिति / वैराग्यात् वैराग्यरूपकारणतः, 'कारण' इत्यस्य स्थाने 'करण' इति पाठो युक्तः / करणग्रामे बाह्यान्तःकरणसमुदाये, तन्निरोघे रागनिरोधे, परिश्रमः परितः सर्वतः श्रमो भवति तथा श्रमोऽतिकष्टसाध्यः अतो मुक्ति