________________ 332 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिशिका / चेतनस्य, तद्भवाञ्चितं तद्भवोपार्जितं कर्म, तस्येति शेषः, तस्य कर्मणः, यथाविधोदयापायि प्रचितापि यथासमयफलदानसाम्मुख्यफलावाद्यनन्तरविनाशशालिकर्मसमूहेऽपि, सङ्क्रमः प्रवेशो भवति, तथा च जन्मान्तरसंचितकर्मणामुदयापायिनमुपभोगे तदपि कर्मोपभुज्यते, एवं चैकस्मिन्नेव जन्मनि पूर्वमनभिव्यक्तविद्यस्य पश्चाच्च ज्ञानिनो भवान्तरप्रचितकर्मोपभोगवत्तत्प्रचितिसक्रान्तवद्भवीयकर्मणोऽप्युपयोग इत्यर्थः // 18 // अष्टविकल्पादेव इत्यादि साङ्ख्यमतमुपदर्शयतिब्रह्माद्यष्टविधं दैवं सत्त्ववृत्तिविशेषतः / मानुष्यं [? च] रजःशेष स्वं वार्ततमसो जगत् // 19 // ब्रह्माद्यष्टविध देवमिति / "ऊर्ध्व गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः // 13 // " इति वचनात् / सत्त्ववृत्तिविशेषतः रजस्तमसी अभिभूय प्राधान्येन सत्त्वगुणपरिणामविशेषात् , ब्रह्माद्यष्टविधं ब्रह्माद्यष्टप्रकारं, दैवं देवलोकोद्भवं, जगदित्यन्वयः, मानुष्यं मनुष्यलोकोद्भवं जगत् , रजः रजोवृत्तिविशेषोद्भवम्, शेष दैव-मानुष्यावशिष्टं जगत्, वार्ततमसः वृत्तिविशेषावलीढतमोगुणस्य, स्वं निजं, तत्कार्यमिति यावत् // 19 // बन्धस्य दक्षिणबन्धादिप्रभेद औपाधिकः स्वाभाविकस्त्वेक एव बन्ध इत्याह अवधैकात्मको बन्धो गुणव्यापारलक्षणः / दक्षिणादिविकल्पस्तु बालिशप्रसभाङ्कुशः // 20 // अविद्यैकात्मक इति / अविद्यात्मकः बुद्धि पुरुषयोर्भेदाख्यातिलक्षणस्तयोस्तादात्म्याध्यासलक्षणो वा, बन्धः पुरुषस्य संगादागाढगूढबन्धनम्, गुणव्यापारलक्षणः सत्त्वादिगुणत्रयव्यापारात्मकः, दक्षिणादिविकल्पस्तु दाक्षिणकबन्धादिकल्पनप्रकारस्तु, बालिशप्रसभाङकुशः बालिशानां मूर्खाणां