________________ दिवाकरकृता किरणावलीकालता त्रयोदशी सांख्यप्रवोधद्वात्रिंशिका। 331 "वत्स ! विवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य / पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य // 12 // " इति वचनात् / आविस्तिरोभाववती आविर्भाव-तिरोभावौ सत्कार्यवादिनस्तस्य मते उत्पादस्थाने आविर्भावस्य, विनाशस्थाने तिरोभावस्य स्वीकारात्, गुणानां सत्त्व-रजस्तमसां, कः कः प्रमाता, प्रमास्यति प्रमातुं शक्ष्यति, स्वभावतो जायमाना सत्त्व-रजस्तमोगुणप्रभवपुरुषार्थप्रवृत्ति-निवृत्त्याविर्भाव-तिरोभावावनल्पप्रकारौ प्रमातुं न कोऽपि प्रमाता शक्त इत्यर्थः // 16 // अनादिसंचितकर्मणोऽप्युदयप्रभवफलोपभोगस्तिरोभावलक्षणप्रलयतस्तन्मुक्तिसुखाभिमानः पुरुषस्य भोक्तुः पाकाद्युपयुक्ताग्निसाधन-काष्ठप्राप्तिनिमित्तच्छिन्नवृक्षप्रभवानन्दानुभावो यथा पाचकादेरित्याह अनादिप्रचितं कर्म प्रलयान्त्यवपुर्मुखम् / प्रवृत्तौ तद्विधापायं छिन्नवृक्षप्रमोदवत् // 17 // अनादिप्रचितमिति / अनादिप्रचितम् अनादिकालसञ्चितम्, कर्म पुण्यपाप-लक्षणम्, प्रवृत्तौ तत्तत्कर्मफलोपभोगार्थप्रवृत्तौ सत्याम् 'तद्विधापायं' इत्यस्य स्थाने 'तद्विधोपायं' इति पाठो युक्तः / तद्विधोपाय प्रवृत्त्यादिप्रकारकफलनिष्पादनसाधनम् , प्रलयान्त्यवपुमुखम् विनाशपर्यन्तावस्थानप्रधानम् , यावत्तत्फलोपभोगार्थप्रवृत्तिरुपजायते तावत्कालपर्यन्तस्थायि, न चैवं स्वसञ्चितपुण्य-पापविनाशार्थं प्रवृत्तिरेव न सम्भवतीति चेत् ततः स्वस्वरूपचैतन्यवादी प्रत्याशाप्रभवानन्दतः प्रवृत्तिः यथास्वयमुप्तस्यापि वृक्षस्येन्धनार्थतस्तच्छेदने उत्तरकालीनपाकप्रभवो. दनभक्षणप्रभवतृप्तिजन्यानन्दसम्भावनया प्रवृत्तिरित्याह-छिन्नवृक्षप्रमोदवदिति छिन्नं वृक्ष येन स छिन्नवृक्षः पुरुषस्तस्य यथा प्रमोदस्तथेत्यर्थः // 17 // अनभिव्यक्तविद्यस्य विदुषस्तद्भवाश्चितम् / यथाविधोदयापायि प्रचितावपि संक्रमः // 18 // अनभिव्यक्तेति / अनभिव्यक्तविद्यस्य अनभिव्यक्ता अनाविर्भूता विद्या अन्तःकरणचैतन्यभेदज्ञानलक्षणा यस्य सः अनभिव्यक्तविद्यस्तस्य, विदुषः