________________ 330 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / प्रत्ययार्थमेव दर्शयति सिद्धिरीहितनिष्पत्तिस्तुष्टिस्तद्देशवृत्तिता / . अशक्तिः साधनाद्यानि वितथेष्टिविपर्ययः // 15 // सिद्धिरीहितनिष्पत्तिरिति / ईहितनिष्पत्तिः ईहितस्य इच्छाविषयीभूतार्थस्य निष्पत्तिः प्राप्तिः, सिद्धिरिति गीयते, सा अणिमा-लघिमाद्यष्टप्रकारा, तुष्टिस्तद्देशवृत्तिता यो यत्रैव तिष्ठति स तत्रैव सन्तुष्टो भवतीति तद्देश एव वर्त्तते, एवमेवाहं सुखेन वर्ते इति सन्तोषस्तुष्टिः सा नवप्रकारा, 'अशक्तिः साधनायानि' इत्यस्य स्थाने 'अशक्तिः साधनादीनां' इति पाठो युक्तः / साधनादीनां करणादीनाम् , अशक्तिः सामर्थ्यप्रतिघातः अशक्तिः सा चाष्टाविंशतिभेदा, 'वितथेष्टिविपर्ययः' इत्यस्य स्थाने 'वितथेष्टि विपर्ययः' इति पाठो युक्तः / वितथेष्टिः यद्वस्तु यथा वर्तते तद्भिन्नप्रकारेण तस्याभ्युपगमः अज्ञानं, विपर्यय इति व्यपदिश्यते, स च वियर्ययः पञ्चप्रकार:--- “एष प्रत्ययसर्गो विपर्ययः शक्तितुष्टिसिद्धाख्यः / गुणवैषम्यं निमित्तस्तत्त्य तु भेदास्तु पञ्चाशत् // 10 // " ''पञ्चविपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् / अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः // 11 // " इति वचनाभ्याम् // 15 // सत्त्वादिगुणानां वैषम्यनिबन्धने स्वभावाधीनपुरुषार्थप्रवृत्ति-निवृत्त्याविर्भावतिरोभावगती प्रमातुं न कोऽपि शक्त इत्याह पुरुषार्थप्रवृत्तीनां निवृत्तीनां स्वभावतः / आविस्तिरोभाववती को गुणानां प्रमास्यति // 16 // पुरुषार्थेति / पुरुषार्थप्रवृत्तीनाम् स्वर्गापवर्गादिलक्षणपुरुषार्थीद्दे श्यकप्रवृत्तीनामित्यर्थः, निवृत्तीनां द्विष्टनरकादिनिबन्धनब्रह्महननादिविषयकनिवृत्तीनाम्, स्वभावतः स्वाभावादेव न त्वीश्वरप्रेरणया, यदुक्तम्