________________ दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / 329 शरीरे धृति-संश्लेष-पक्ति-व्यूहावकाशतः। पृथिव्यादिसमारम्भः परिणामस्तु पूर्वयोः // 13 // शरीर इति / शरीरे देहे, धृति-संश्लेष पक्ति-व्यूहावकाशतः धृत्तिर्धारणं स्थैर्य पृथिव्याः, संश्लेषः अवयवानां परस्परं सम्बन्धविशेष एकपिण्डीभवनलक्षणो जलस्य, पक्तिः भुक्त-पीतान्नपानादिपरिपाकस्तेजसः, व्यूहः भुक्त-पीतादीनां परिणामानन्तरं रक्त-मांस-धात्वादिपरिणामस्य यथास्थानावस्थानलक्षणं व्यूहनं वायोः, अवकाशः सुषिरः आकाशस्येत्यतः पृथिव्यादिसमारम्भः पृथिवी-जल-तेजो-वाय्वाकाशानां सम्यग्व्यापारः, एवं च पृथिव्याः प्राधान्येन समारम्भतः पार्थिव शरीरमिति, जलस्य प्राधान्येन समारम्भतो जलीय शरीरमिति, तेजसः प्राधान्येन समारम्भतस्तैजसं शरीरमिति, वायोः प्राधान्येन समारम्भतो वायवीयं शरीरमिति, आकाशस्य तु सर्वत्रोपष्टम्भकतैव न प्राधान्यमिति नाकाशीयं शरीरमिति, पाञ्चभौतिकं शरीरमिति तूपपदचारतः सामूहिके आकाशीयत्वमपि, वस्तुतस्तु अहङ्कारपञ्चतन्मात्रपरिणामत्वादाहङ्कारिकं शरीरमित्याहपरिणामस्तु पूर्वयोः साक्षात्-परम्परापरिणामिनोरहङ्कारतन्मात्रयोः परिणामः पुनः शरीरमित्यर्थः // 13 // प्रकृतेर्महान् महतोऽहङ्कार इत्यादिरीत्या प्राकृतसृष्टे रूपवर्णनं विहितम् , अथ प्रत्ययसर्गमुपदर्शयति श्रोत्रादीनां मनोवृत्तिः प्रतिपत्तिस्वयोगतः / . शान्तादिविविधोदकः प्रत्ययार्थः प्रवर्तते // 14 // श्रोत्रादीनामिति / श्रोत्रादीनां श्रोत्रादीन्द्रियाणां, प्रतिपत्तिस्वयोगतः प्रतिपत्त्या ज्ञानेन समं स्वस्य योगतः जन्य-जनकभावादिसम्बन्धतः श्रोत्रेन्द्रियजन्यज्ञानस्पर्शनेन्द्रियज्ञानादिरूपविषयप्राप्तितः, मनोवृत्तिः मनोरूपान्तःकरणजन्यज्ञानकामादिलक्षणवृत्तिः, शान्तादिविविधोदकः शान्तद्यमूढाद्यनेकप्रकारः, प्रत्ययार्थः प्रत्ययसर्गः, प्रवर्तते जायते // 14 //