________________ 328 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / वाक्यादानमिति / 'वाक्यादानं गता' इस्यस्य स्थाने 'वाक्यादानगता' इति पाठो युक्तः / वाक्यादानगतानन्दत्यागान्यद् वचनग्रहणविहरणानन्दोत्सर्गाणि कर्माणि, तत्करणानि वाक्-पाणि-पादोपस्थ-पायूनि पञ्चकर्मेन्द्रियाणि, क्रियया तत्करणस्याक्षेपालाभः, तत्र वाक्यं वचनं वागिन्द्रियस्य कार्यम्, आदानं ग्रहणं पाणीन्द्रिस्य कार्यम् , गतं विहरणं पादेन्द्रियस्य कार्यम् , आनन्दः सुरतप्रभवः उपस्थस्य योनि-लिङ्गात्मकेन्द्रियस्य कार्यम् , पुरीषोत्सर्गादिलक्षणत्यागाकर्म च पायोः कर्मेन्द्रियस्य कार्यमिति, अन्यत् निरुक्तज्ञानेन्द्रिय-कर्मेन्द्रियभिन्न मनोलक्षणमन्त:करणम् , उभयं ज्ञानेन्द्रिय-कर्मेन्द्रियोभयरूपम् , उभयात्मकमत्र मनःसङ्कल्पकमिन्द्रियं च साधादिति वचनात् , विदुः साङ्ख्याचार्या जानन्ति, मनः कुत्रेत्याकाङ्क्षायामाह-चैतन्यवदिति, चैतन्यं यथा सर्वगतमपि देह एव प्रकाशभोगादिसम्भवतो देहे वर्तत इति व्यवह्रियते, तथा मनःसंवित्सुखादयः देह एव वर्तन्त इति, देहवृत्ति देहवर्तनक्रियाया एकत्वविवक्षयैकवचनम् // 11 // एतन्मते किं जीवनं कश्च भव इत्याकाक्षायामाह प्राणादाकरुणग्रामवृत्तिर्जीवनसंज्ञिका / तदभिव्यक्तिरन्यत्र बुद्धयाशयवशाद् भवः // 12 // प्राणादिति / 'आकरुण' इत्यस्य स्थाने 'आकरण' इत पाठो युक्तः / प्राणात् प्राणोऽपानसमानोदान-व्यान-स्वरूपवायुपञ्चकमारभ्य, आकरणग्रामवृत्तिः एकादशेन्द्रियसमूहस्य वृत्तिः, श्वासोच्छवासादिप्रत्यक्षादिवचनलक्षणा, आसमन्तात् प्राणादिकरणग्रामवृत्तिः, जन्मन आरभ्यान्तिमश्वासप्रश्वाससमयव्यापिनी, जीवनशिका जीवनशब्दाभिधेया, तदभिव्यक्तिः निरुक्तवृत्त्यभिवृत्तिः, अन्यत्र मरणानन्तरोपादीयमानशरीरान्तरे, बुद्धयाशयवशात् धर्माधर्मलक्षणो यो बुद्धेर्महत भाशयस्तद्वशात् तद्बलात् , भवः संसारः जन्मेत्यर्थः // 12 // शरीरे पृथिव्यादीनां पञ्चानामप्युपकारदर्शनात् पञ्चेभ्यो भूतेभ्यस्तदारभ्य इत्याह