________________ दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्य प्रबोधद्वात्रिंशिका / 327 सम्भवः, न कार्यमन्तरेण कारणस्वरूपतया कस्यचित् सम्भव इति एकादशेन्द्रियपञ्चभूतात्मकषोडशकार्यग्रामसम्भवोऽप्युलक्षितो भवतीति, तदुक्तम्-- "प्रकृतेर्महान् महतोऽहङ्कारः तस्माद् गुणश्च षोडशः / तस्मादपि षोडशकात् पञ्चेभ्यः पञ्चभूतानि // 9 // " इति / शब्दादयश्च शब्द-स्पर्श रूप-रस-गन्धाः पुनः, व्योमादिविशेषाः आकाशस्य वायु-तेजो-जल-पृथिवीनामन्यव्यावर्तकतयाऽसाधारणधर्माः, तद्गुणात्मकाः आकाशादिगुणात्मकाः, तत्र शब्दो व्योमगुणः, स्पर्शो वायुगुणः, रूपं तेजोगुणः, रसो जलगुणः, गन्धः पृथिवीगुणः, अत्र पूर्वपूर्वगुण उत्तरोत्तरस्यापि उत्तरोत्तर. गुणश्च पूर्वेभ्यो व्यावर्तकत्त्वान्न पूर्वस्य, तेन शब्दगुणकमाकाशम्, शब्द-स्पर्शरूप-रसगुणकं जलम् , शब्दरूप-रस-गन्धगुणा पृथिवोति बोध्यम् // 9 // ज्ञानेन्द्रियपञ्चकं निरूपयति- . शब्दाद्यालोकसामर्थ्य श्रोत्रादीन्द्रियपञ्चकम् / एतेनोक्ता विशेषाणां शब्दादिगुणभक्तयः // 10 // शब्दाद्यालोकेति 1 शब्दाद्यालोकसामर्थ्यम् शब्द-स्पर्श-रूप-रस-गन्धप्रत्यक्षसामर्थ्यम् , श्रोत्रादीन्द्रियपञ्चकम् श्रोत्र-त्वक्-चक्षु-रसन घ्राणेन्द्रियाणि पञ्चज्ञानेन्द्रियाणि, अत्र शब्दप्रत्यक्षकरणमिन्द्रियं श्रोत्रेन्द्रियम् , स्पर्शप्रत्यक्षकरणमिन्द्रिय त्वगिन्द्रियम् , रूपप्रत्यक्षकरणमिन्द्रियं नयनेन्द्रियम् , रसप्रत्यक्षकरणमिन्द्रियं रसनेन्द्रियम् , गन्धप्रत्यक्षकरणमिन्द्रियं घ्राणेन्द्रियमिति, एतेन प्रतिनियतेन्द्रियजन्यप्रत्यक्षविषयत्वेन, विशेषाणां व्योमादिविशेषाणां, शब्दादिगुणभक्तयः आकाशस्य शब्दो गुणः, वायोः स्पर्शो गुण इत्याद्या विभागाः, उक्ताः कथिता इत्यर्थः // 10 // कर्मेन्द्रियाणि निरूपयतिवाक्यादानं गताऽऽनन्दत्यागान्यदुभयं विदुः। चैतन्यवद् देहवृत्तिः मनःसंवित्सुखादयः // 11 //