________________ 326 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / कर्तृबुद्धितादात्म्येन पुरुषस्य ज्ञानात् कर्तृबुद्धितादात्म्यारोपतच कर्ता पुरुषः, कार्यस्तु गुणभोजनात् तु पुनः, कार्योऽपि पुरुषः, गुणभोजनात् गुणफलसुखदुःखाद्युपभोक्तत्वात् , सुख-दुःखानाविर्भावसमये न तद्भोक्ता तदाविर्भावसमये तद्भोक्तेति पूर्वाभोक्तृस्वभावपरित्यागेन भोक्तृस्वभावतयोत्पादात् पुरुषः कार्योऽपि भवति, एतावपाकर्तृकर्तृवयरूपः नित्यानित्योभयरूपो नानकस्वरूपश्च पुरुष उपदर्शित इत्यर्थः // 8 // सत्त्वादिसाम्यं प्रकृतिवैषम्यं महदादय इति प्रागुक्तमतो वैषम्यकार्यमुपदर्शयति वैषम्यमात्रान्महतः कारणग्रामसंभवः। शब्दादयश्च व्योमादिविशेषास्तद्गुणात्मकाः // 9 // वैषम्यमात्रादिति / महत बुद्धितत्त्वस्य, वैषम्यमात्रात् सरवादिगुणानां वैषम्यमात्रात् , मात्रपदेनान्यनिमित्तव्यवच्छेदः महत इत्यहङ्कारादेरप्युपलक्षणं, प्रकृतियद्यपि सात्त्विक-राजस-तामसभेदभिन्नबुद्धिकारणं नान्तरेण सत्त्वादिवैषम्यस्य, तथापि वैषम्यदशायां सत्त्वादिसाम्यरूगः प्रकृतेः सद्भाव एव नास्ति कुतः सा वैषम्यतः कारणं भवेत् किन्तु वैषम्यस्यैवोत्तरकालीनस्य परिणामरूपस्य पूर्वकालीना प्रकृतिः परिणामिनी कारणमिति, प्रकृतिः रजस्तमसी अभिभूयोद्रिक्तसत्त्वरूपेण परिणममाना सात्त्विकबुद्धिः, सत्त्व-तमसी अभिभूयोद्रिक्तरजोरूपेण परिणममानसा राजसत्रुद्धिः सत्त्व-रजसी अभिभूयोद्रिक्ततमोरूपेण परिणममाना सैव तामसबुद्धिरिति, इत्थं व्यवस्थितस्वरूपास्तिस्रोऽपि बुद्धयः, सत्त्वप्रधानबुद्धिलक्षणगुणवैषम्यतः सात्त्विकाहंकारः, रजःप्रधानबुद्धिलक्षणगुणवैषम्यतो राजसाहंकारः, तमःप्रधानबुद्धिलक्षणगुणवैषम्यतस्तामसाहंकारः, सात्त्विकाहंकारलक्षणगुणवैषम्यतः पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रिय-मनोलक्षणसात्त्विकैकादशसमुद्भवः तामसाहङ्कारलक्षणगुणवैषम्यतः शब्दादितन्मात्रपञ्चकस्य तमःप्रधानस्याविर्भावः, शब्दादितन्मात्रपञ्चकलक्षणवैषम्यतो व्योमादिपञ्चभूतस्योत्पत्तिरित्याशयेनाह-कारणग्रामसम्भव इति अहङ्कारपञ्चतन्मात्रस्वरूपविजातीयत्त्वादन्तःकारणसमूहस्य