________________ दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिशिका / 325 इति वचनादभ्यासकृता चैतन्यवृत्तिरनुमतैव, तच्च केवलज्ञानं सात्त्विकप्रधानाया बुद्धेरेव वृत्तिः परं बुद्धि-चैतन्ययोरमेदाध्यासाच्चैतन्यास्यापीति // 6 // परस्परविरुद्धस्वभावा अपि गुणाः पुरुषस्य बन्ध-मोक्षलक्षणफलसम्पत्तये चैतन्याभेदाध्यासात् परस्परमौदासिन्यं विशेषपरिहारात्मकमासादयन्ति, फलं चोपभुक्ते चेतनो न तु गुणाभोक्ता इति तेषां फलकत्वमङ्गाङ्गिभावेन सम्पद्यत इत्याह गुणौदासीन्यमन्योऽन्यं चैतन्यादधिकारतः / अभोक्तृत्वाच्च कर्तृत्वमङ्गाङ्गिपरिणामतः // 7 // गुणौदासिन्यमन्योऽन्यमिति / गुणौदासिन्यमन्योऽन्यं गुणानां सत्त्व-रजस्तमसामौदासीन्यं विरुद्धकार्यकारणाप्रवृत्तिः, अन्योऽन्यं परस्परं, चैतन्यात् चैतन्यारोपात् , अधिकारतः पुरुषस्य बन्धान्मुक्तिर्भवत्वितीच्छातः, अभोक्तत्वाच्च अचेतनानां गुणानां भोक्तृत्वाभावाच्च, कर्तृत्वं फलानुकूलकृतिमत्त्वम् , अङ्गाङ्गिपरिणामतः सत्त्व-रजस्तमसां मध्ये एकस्याङ्गत्वं गुणभावः अपरस्यानित्वं प्रधानभाव इत्येवं परिणतिविशेषतः, सर्वस्य प्रधानभावे परस्परविरोधात् कार्यकर्तृत्वं न स्यात् , तथा सर्वस्य गुणभावे प्रधानस्य कस्यचिदभावादेव न कार्यकर्तत्वं स्यात् , गुणप्रधानभावे तु प्रधानस्य कर्तृत्वं स्यात् गुणप्रधानभावे तु प्रधानस्य कर्तृत्वसम्पत्तये गुणीभूता अन्ये तत्रोपकारमारचयन्तीति // 7 // __ भोक्तृतपोपगतः पुरुष एव कर्ताऽप्यस्तु किं गुणानां कल्पनयेत्यतः आह ऐक्यादकर्ता पुरुषः कर्ताऽधिष्ठानशक्तितः / स्वातन्त्र्यादुपलब्धेश्च कार्यस्तु गुणभोजनात् // 8 // ऐकयादिति / ऐक्यादकर्ता पुरुषः सङ्घातस्यैव कार्यकर्तृत्वमिति ऐक्यादभेदादसंघातरूपत्वात् , पुरुषश्चेतनः अकर्ता कर्तृभिन्नः न चैवमकर्तृचेतनाधिष्ठिता गुणा अपि कर्तारो न स्युरित्यत आह-कर्ताऽधिष्ठानशक्तितः चेतनाधिष्ठितोऽचेतनः कार्य कर्तुं समर्थो न चेतनानधिष्ठित इति, अधिष्ठानसामर्थ्यात् कर्ताऽपि पुरुषः, तथा स्वातन्त्र्यात् स्वतन्त्रः कर्तेति पाणिनीया व्यवहरन्ति पुरुषोऽपि स्वतन्त्र इति स्वातन्त्र्यात् कर्ता. पुरुषः, उपलब्धेश्च चेतनोऽहं करोमीति