________________ 324 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / अर्थवत्त्वात् अदृष्टस्वर्गादिलक्षणप्रयोजनवत्वात् , अस्य गुणचैतन्यवृत्तयः इत्यने. नान्वयः, तस्य गुणानां सत्वादिगुणानामूर्वाधो-मध्यलोकादिगमनावस्थानकर्तत्वादिलक्षणा वृत्तयः चैतन्यस्य पुरुषस्य भोक्तृत्वसाक्षित्वादिलक्षणावृत्तय च, भवन्तीति शेषः, प्रमाणतोऽर्थमवगम्य प्रवर्त्तमानस्य तदुद्देश्यफलमवश्यं भवति तच्च यथा सम्पद्यते तथोपाय च भवत्येव, तमन्तरेण फलानिष्पत्तेः "न हि यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् / अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम् // 6 // " इत्यादिलक्षणलक्षितं स्वर्गादिफलं देशविशेषादिगमनादिकमन्तरेति भवति तादृशफलान्यथानुपपत्त्या गुणचैतन्मवृत्तय इति, प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसाम •दर्थवत्प्रमाणमिति न्यायभाष्यमपि प्रवृत्तेः संवादित्वे प्रमाणस्यार्थवत्त्वात् प्रामाण्यं प्रतिपादयति, प्रवृत्तेः संवादित्वाञ्च स्वोद्देश्यार्थवत्त्वादेव निर्वहतीति, तत एव च इदं प्रमाणं संवादिप्रवृत्तिजनकत्वादित्यनुमानं प्रामाण्यसाधकं प्रवर्तत इति, अनुग्रहात् अदृष्टफलकप्रवृत्त्युपष्टम्भकानुमानस्यादिशब्दादेवानुग्रहाद् अनुमानात् फलस्य सिद्धावपीदं फलमस्येति विशेषतः प्रतिपत्तिर्नादिशब्दादृते सम्भवति, सामान्यतोऽनुमानं च शिष्टप्रवृत्तीनां सफलत्वग्राहकमेव / “विफला विश्ववृत्तिों न दुःखैकफलाऽपि वा / दृष्टलाभफला नापि विप्रलम्भोऽपि नों दृशः // 7 // " इत्यादिवचनं सामान्यतः फलानुमानं द्रढयति, परिणामविशेषाच्च गुणचैतन्यवृत्तयः अभ्यसितादादिशब्दाच्छ्रद्धादिपरिणामविशेषो भवति ततश्च निर्मलान्तःकरणगुणवृत्तिरुपजायते तत एव च तत्त्वाभ्यासोऽपि सम्पद्यते न च स्वतोऽपरिणामिनोऽपि चैतन्यस्य गुणोपाधिकृतपरिणामविशेषतः केवलज्ञानलक्षणा वृत्तिरुपजायते, आदिशब्दादृते निर्मूलपरिणामविशेषो न भवत्येव, चैतन्य-गुणयोरन्योऽन्यामेदाध्यवसायादेव जायमानः परिणामविशेष चैतन्यस्यापि, दर्पणमालिन्यकृतमुखप्रतिबिम्बमालिन्यं बिम्बभूतमुखस्यापि मालिन्यं यथोपचाराद् गोयते, एवम् "तत्त्वाभ्यासान्नास्मि नामेनाहमित्यपरिशेषम् / "अविपर्ययाद् विशुद्धं केवलमुत्पद्यते ज्ञानम् // 8 // "