________________ दिवाकर कृता किरणावलोकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका। 323 श्रोत्रादिवृत्तिरिति / श्रोत्रादिवृत्तिः श्रोत्र-त्वक्-चक्षू-रसन-घ्राणेन्द्रियप्रभवं ज्ञानं, प्रत्यक्ष प्रत्यक्षप्रमाणम् , अनुमानमनुस्मृतिः लिङ्ग-लिङ्गिव्याप्तिस्मरणप्रभवं ज्ञानमनुमानप्रमाणम्, कृत्स्नार्थसिद्धेः प्रत्यक्षानुमानाभ्यामेव सकलस्योपमानार्थापत्त्यादिगोचरस्यार्थस्य निर्णयात् , अतोऽन्यन्न प्रत्यक्षानुमानाभ्यां भिन्नमुपमानार्थापत्त्यादिकं प्रमाणं न तत् किं शाब्दमपि न प्रमाणमत आह-शाब्दमात्मविशेषतः इति शाब्दं शब्दप्रभवं ज्ञानम् , आत्मविशेषतः आत्मनो यो विशेष आप्तत्वं ततो यः शब्दे विशेष आप्तोक्तत्वं तस्मात् प्रमाणम् , सर्गादावादिविद्वान् प्रादुर्भूतः कपिलो महामुनिः पूर्वकल्पाधिगतागममुच्चारयतु, न तु अभिनवं करोति सोऽयमनादिरागमः कपिलोक्तत्वमात्रेणादिमान् , प्रमाणं तदुक्तम् "प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् / तल्लिङ्ग-लिङ्गिपूर्वकमाप्तश्रुतिरादिवचन च // 4 // " इति / प्रत्यक्षानुमानानधिगतार्थविषयकज्ञानजनकन्वेन चागमस्य प्रामाण्यं तदनुमतम्, तदुक्तम् "सामान्यतस्तु दृष्टादतोन्द्रियाणां प्रतीतिरनुमानात् / तस्मादपि चासिद्ध परोक्षमाप्तागमात् सिद्धम् // 5 // " इति॥५॥ यद्यप्यागमतोऽधिगतेऽर्थेऽनुमानमपि प्रवर्तत एवेत्यधिगतार्थविषयकत्वमागमस्य तथापि प्राथमिकागमप्रभवप्रवृत्तेरर्थवत्त्वात् संवादिप्रवृत्तिजनकत्वेनागमस्य प्रामाण्यमुद्धृतम् नागमादृतेऽनुमानं प्रथमतस्तथाभूतेऽर्थे प्रवत्तयितुमुत्सहते, पश्चात् तत्र प्रवर्त्तमानेऽनुमाने आगमोऽनुग्राहको भवतीत्यागममुखनिरीक्षकत्वमेवास्य, न तु स्वातन्त्र्येण तत्र तस्य प्रामाण्यमित्याशयेनाह आदिशब्दात् प्रवृत्तीनामर्थवत्त्वादनुग्रहात् / परिणामविशेषाच्च गुणचैतन्यवृत्तयः // 6 // - आदिशब्दादिति / प्रवृत्तीनां स्वर्गाद्युद्देश्यकयागादिविधेयकप्रवृत्तीनाम् , आदिशब्दात् मूलकारणदर्श-पौर्णमासाभ्यां 'स्वर्गकामो यजेत' इत्यादि श्रौतवाक्यात्,