________________ 322 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिशिका / . कार्यकारित्वं स्यादिति सर्वसम्मेलनमकिञ्चित्करमित्याशङ्काप्रतिविधानायाह-परस्परा त्मकेनेति / 'उपद्वकार्कश्यवृत्तिवत्' इत्यस्य स्थाने . 'उष्णद्रवकार्कश्यवर्तिवत्' इति पाठो युक्तः / परस्परात्मकेन एकत्वसम्मिलनलक्षणपरस्परात्मकत्वेन, उष्णद्रवकार्कश्यवत्तिवत् उष्णस्वभावाग्निद्रवस्वभावतैल कार्कश्यस्वभावतूलैव त्रितयसम्मिलितवर्तिका यथा सन्निवेशविशेषप्रयुक्ता विरोधभावत एक प्रकाशकार्यकारिणी तथा सत्त्वादिगुणा अपि एकलोलीभावलक्षणपरस्परात्मकत्वेन त्यक्तविरोधाः प्रकृतिमहदादिरूपा एककार्यकारिण इत्यर्थः // 3 // सत्त्वादिगुणानां विभिन्नस्वभावत्वमुपदर्शयति लाघवख्यातिसौख्यानि सत्त्वं दुःख-क्रिये रजः / तमोऽन्यद् बहिरन्तश्च तद्विकल्पोऽनिलादिवत् // 4 // लाघवख्यातिसौख्यानीति / लाघवख्यातिसौख्यानि सत्त्वं सत्त्वगुणः, लाघवस्वभावः, ख्यातिस्वभावः, सौख्यस्वभावश्च, दुःख-क्रिये रजः रजोगुणः दुःखस्वभावः, क्रियास्वभावश्च, तमोऽन्यत् तमोगुणः सत्त्व-रजःस्वभावभिन्नस्वभावः अलाघवाख्यात्यसौख्यस्वभावोऽदुःखाक्रियस्वभावश्च, बहिरन्तश्च तद्विकल्पः सत्त्व-रजस्तमसां विकल्पो बरिरन्तश्च भवति, अनिलादिवत् यथाऽनिलादीनां शरीरान्तस्तद्वाहिश्च विकल्पो भवति तथा सत्त्वादीनामपीत्यर्थः / उकं च "सत्त्वं लघुप्रकाशकमिष्टमुपष्टम्भकं चलं च रजः / गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः // 3 // " इति // 4 // साङ्खयमते प्रमाणं त्रिविधं प्रत्यक्षमनुमानमागमश्चेति भेदात् , न तूपमानार्था पत्ती तयोरनुमाने अन्तर्भावादित्याशयेनाह श्रोत्रादिवृत्तिः प्रत्यक्षमनुमानमनुस्मृतिः / कृत्स्नार्थसिद्धे तोऽन्यच्छाब्दमात्मविशेषतः॥५॥