SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिशिका / 321 इत्थमागतस्य सामयशास्त्रस्य प्रतिपाद्यमुपदर्शयति सत्त्वादिसाम्यं प्रकृतिषम्यं महदादयः / परस्परात्मकेनोपद्रवकार्कश्यवृत्तिवत् // 3 // सत्त्वादिसाम्यमिति / सत्त्वादिसाम्यं प्रकृतिः सत्त्व-रजस्तमसां त्रयाणां गुणानां समताऽवस्था प्रकृतिर्जगतो मूलकारणं, न सा कस्यचित् कार्य किन्तु कारणमेवेति मूलप्रकृतिरित्युच्यते, न कस्यचिद् विकृतिरित्यविकृतिः, प्रधानशब्दवाच्याऽपि सैव, वैषम्यं सत्त्वादिगुणत्रयाणां न्यूनाधिकमापल्लक्षणां विषमावस्थां, महदादयः महदहङ्कारपञ्चतन्मात्राणि पञ्चज्ञानेन्द्रिय-पञ्चकर्मेन्द्रिय-मनः-पञ्चभूतानीति, तत्र महान् बुद्धिरित्याख्यायते, महदहङ्कारपञ्चतन्मात्राणि सप्ततत्त्वानि प्रकृतिविकृतयः, तत्र महान् मूलप्रकृतेविकृतिः अहङ्कारस्य तु प्रकृतिः, अहंकारश्च महतो बुद्धेः कार्यत्वाद् विकृतिः पञ्चतन्मात्राणां कारणत्वात् प्रकृतिः पञ्चतन्मात्राणि चाहङ्कारस्य कार्यत्वाद् विकृतिः पञ्चभूतादीनां कारणत्वात् प्रकृतिः इत्येवं महदादिसप्ततत्त्वानि प्रकृतिविकृतयः, पञ्चज्ञानेन्द्रियादिषोडशगणस्तु न कस्यापि तत्त्वान्तरस्य कारणमिति प्रकृतिर्न भवति, किन्तु अहङ्कारस्य कार्यत्वाद् विकृतिः, एवं सत्त्वादिगुणसाम्यतद्वैषम्यनिमित्तत्वप्रकृत्यादिचतुर्विंशतितत्त्वगतप्रकृतिविकृतिभावविचारणा, पञ्चविंशतितमतत्त्वतया सम्मतं पुरुषतत्त्वं तु न कस्यापि कारणं नवा कस्यापि कार्यमिति प्रकृति-विकृतिभिन्नं तत्त्वान्तर, तदुक्तमीश्वरकृष्णेन "मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त / षोडशकस्तु विकारो न प्रकृति पि विकृतिः पुरुषः // 1 // " इति, पञ्चविंशतितत्त्वज्ञानं प्रशंसन्ति सांख्याचार्याः “पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः / शिखी मुण्डी जटी वापि मुच्यते नात्र संशयः // 2 // " इति / सत्त्व-रजस्तमसां गुणानां विरुद्धस्वभावानां परस्पर कार्यविघातकानां साम्यकिञ्चित् कार्य ततः स्यात् , वैषम्येऽपि यस्यैव गुणस्य प्राबल्यं तस्यैवैकस्य
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy