________________ त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / भक्त्या श्रोनेमिसूरेजिनमतमननोबुद्धनीतिप्रपञ्चो धीतन्यायादिशास्त्राऽकलितबहुविधोद्गारतर्कप्रचारः / धोमान् लावण्यमुरि: स्तुतिगतविषयोल्लासनेकान्तबुद्धिः वीरश्रद्धोपचित्यै स्तुतिविवृतिमिमां भावयत्येकचित्तः // 1 // सावयाभिमत-तत्त्वोपदर्शनार्थी त्रयोदशी द्वात्रिंशिकां श्रीसिद्धसेनदिवाकरो वीरस्तुतिरूपतया कुर्वन् प्रथमं पद्ययुग्मं ग्रन्थाति सन्नित्यकर्तनानात्वप्रतिपक्षोभयात्मकम् / गुणधर्ममृषि ना पश्यन्नेवात्मनो भवम् // 1 // स्व-परानुग्रहद्वारमतिरासुरये स्वयम् / तमुमा-वसुदेवाय तन्त्रार्थव्याससूरये // 2 // सन्नित्येति / स्वपरेति च। 'तमुभावसुदेवाय' इति द्वितीयपद्यतृतीयचरणस्थाने 'तमुपाख्यत् सुदेवाय' इति पाठो युक्तः / स्वपरानुग्रहद्वारमतिः ऋषिः नानाऽऽत्मनो भवं पश्यन्नेव सन्नित्यकर्तनानात्वप्रतिपक्षोभयात्मकं गुणधर्म तं स्वयमासुरये सुदेवाय तन्त्रार्थव्याससूरये उपाख्यत्' इत्यन्वयः। स्वपरानुग्रहद्वारमतिः , स्वं च परं च स्व-परे तयोरनुग्रहे द्वारीभूता मतिर्यस्य स स्वपरानुग्रहद्वारमतिः स्वस्य परस्य चानुग्रहो यथा स्यात्तथा तदुपायव्यापारपरायणमतिमान् , ऋषिः कपिलाख्यो महामुनिः, नानाऽनेकप्रकारम् , आत्मनः स्वस्य, भवं जन्मग्रहणं, पश्यन्नेव साक्षात्कुर्वन् एव, सन्नित्यकर्तृनानात्वप्रतिपक्षोभयात्मकं सदसन्नित्यानित्य कर्बकर्तनानैकत्वस्वरूपं, गुणधर्म सत्त्व-रजस्तमसां गुणानां धर्मम् , तं स्वसाक्षात्कारविषयोभूतम् , स्वयं साक्षादेव न तु परम्परया, आसुरये आसुरिनाम्ने स्वान्तेवासिने, सुदेवाय सुष्टु दिव्यतीति सुदेवः तस्मै, तन्त्रार्थव्याससूरये षष्ठितन्त्रप्रतिपाद्यार्थविवेचनपण्डिताय, उपाख्यत् आख्यात. वान् , कपिलो महामुनिः शास्त्रं स्वान्तेवासिने आसुरयेऽकथयत् ; आसुरिश्च स्वान्तेवासिने पञ्चशिखाय कथितवान् , पञ्चशिखश्च साङ्खयशास्त्रं बहुधा कृतमिति द्योतनाय स्वयमित्युक्तम् // 1 // 2 //