________________ दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिशिका / 319 विशेषेणानुग्रहप्रवणं प्रति न कस्यापि क्रोधाद्याविर्भावो न वा तत्प्रभवं निन्दावचनादिकमिति तत्सहिष्णुता न संभविनी, नवा धाष्टर्यमिति न षण्णां वादच्छलानामाश्रयणमिति परानुग्रहसाधुर्महावीर उपास्य एव सर्वेषामिति स्तुतिरभिव्यज्यते // 32 // न्याये षोडशतत्त्वमात्रमनन वादादिमात्राश्रित नाशेषार्थविबोधकं भवति तद् गूढोक्तितो दर्शितम् / सम्यक्तत्त्वविवेकबोधरसिका जानन्त्विमा प्रक्रियां वीरोक्ति परिभावयन्तु सततं भावः स्तवेऽस्मिन् परः / / इति द्वादश्या न्यायद्वात्रिंशिकाया व्याख्या समाप्ता /