________________ 318 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / प्राश्निकेति / प्राश्निकेश्वरसौमुख्य प्राश्निकः वादि-प्रतिवाद्युभयमतज्ञाता मध्यस्थः योऽस्मिन् विषये त्वं प्रश्नं कुरु त्वं च तदुत्तरं विधेहि प्रश्नस्योत्तरे सम्यग् विहिते सत्युत्तरदातुर्जयोऽन्यथाप्रश्नकर्तुजयः अनेन नियमेन वादिना वक्तव्यं प्रतिवादिना चानेन नियमेन वक्तव्यमित्यादिनियमनकर्ता, तस्य सौमुख्यं सम्मुखीनत्वं प्राश्निकसौमुख्यम्, ईश्वरः सभापतिः यो वादि-प्रतिवादिनोरन्येषां च सभोपविष्टानां विग्रहं वारयति तस्य सौमुख्यं सम्मुखीनत्वमीश्वरसौमुख्यम् , धारणाक्षेपकौशलम् धारणाकौशलम् भाक्षेपकौशलं च तत्र धारणाकौशलं परोक्तं यथार्थमयथार्थ वा सम्यगवधारयितुं सामर्थ्यम् , आक्षेपकौशलम् परोक्तमाक्षेप्तुं सामर्थ्यम्, सहिष्णुता परोक्तनिन्दादिवचनसहनशीलता, तत्प्रभवक्रोधाभावः, परं धाष्टयं यथा तथा बहुवारं निग्रहस्थानमुपगतोऽपि न स्वपक्षमत्य जन्नैव किञ्चित् किञ्चिद् वदत्येवं धृष्टत्वम्, इति एवं, षट् षट्संख्यकानि, वादच्छलानि वादे विजयसाधनानि छलानि कपटानि वादच्छलानि भवन्तीत्यर्थः // 31 // कृतार्थानां मुनीनां वैषयिककल्पितफलविमुखानां पारमार्थिकमुक्तिमात्रफलं सम्मुखीभूतानां परानुग्रहार्थमुपदेशलक्षणवचनमेव तत्त्वनिर्णयजनकं वाद इत्युपदिशति कि परीक्ष्यं कृतार्थस्य किमेवेति च चक्षुषः / परानुग्रहसाधोस्तु कौशलं वक्तृकौशलम् // 32 // किं परीक्ष्यमिति / 'कृतार्थस्य किमेवेति च चक्षुषः किं परीक्ष्यं पुरानुग्रहसाधोस्तु वक्तृकौशलं कौशलम्" इत्यन्वयः / कृतार्थस्य अवाप्तसकलप्रयोजनस्य, किमेवेति च चक्षुषः च पुनः, किमेव अनेन किं न किञ्चिदिष्टमनेन जयपराजयादिनेति, इति चक्षुषः एवं पश्यतः, कि परीक्ष्यम् परीक्षाप्रयोजनत्वनिर्णयपरवादिविजयाद्याकाङ्क्षाभावान्न किञ्चित् परीक्ष्यं, तथा च वादकथाऽप्यस्य नावश्यकीति, तर्हि किं कर्त्तव्यमस्येत्याकाङ्क्षायामाह-परानुग्रहसाधोस्तु तु किन्तु, परानुग्रहं साध्नोतीति परानुग्रहसाधुः परानुग्रहैकदत्तदृष्टिः तस्य, वक्तृकौशलं यादृगुपदेशेन परहितमवबुध्यते तथोपदेशनैपुण्यम् , कौशलं नैपुण्य, तथा च नास्य कथायामप्रवृत्तस्य प्राश्निकेश्वरसौमुख्यं धारणाक्षेपकौशलमपेक्षितं सर्वान् प्रत्य