________________ दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका। 317 ननु गुरूपासनाध्ययनाध्यापनादिकं वादि प्रतिवादिनोः समानमेवेति कथमेकस्य यथा सामर्थ्यविशेषस्ततोऽपकृष्टसामर्थ्यविशेषोऽन्यस्येत्याकाक्षायामाह तुल्यसामाधुपायेषु शक्त्या युक्तो विशेष्यते / विजिगीषुर्यथा वाग्मी तथा भूयः श्रुतादपि // 29 // तुल्यसामाद्यपायेष्विति। तुल्यसामाद्यपायेषु सदृशसाम-दान-दण्डभेदलक्षणोपायेषु नृपेषु, शक्तया सामर्थ्येन, युक्तः अन्वितः, विजिगीषुः विजयाभिलाषी राजा, विशेष्यते अन्यनृपेभ्यो विशिष्टो भवति, तथा तद्वत् , वाग्मी वचनपटुः, श्रुतादपि अधीतागमादपि, भूयः बहु, विशिष्यते इत्यनुषउजनीयम्, अन्येभ्यो वादिभ्यो विशिष्टो भवति, गुरूपासनाध्ययनाध्यापनादीनामपि न वस्तुतः समानता, पुरुषविशेषाश्रयणेन तेषामपि वैलक्षण्यं भवत्येव तत्कृतं च वादिष्वपि श्रुतरहस्यावगमलक्षणसामर्थ्य विशेषो भवत्येव कस्यचिद् वादिनः यद्बलाद् कथायां विजयो भवति कस्यचिदेवेत्यर्थः // 29 // येषु वादिषु सत्यवक्तृत्वं नास्ति ते कुटिलरूक्षवादिनः कौटिल्य-रौक्ष्यप्रभावादपि वादे विजयशीला इत्याह सर्वपक्षकणैस्तुल्यं वादिनः सत्यतां विना / समानाभ्युपपत्तिं च जिह्म-रौक्षायुधा ह्यमी // 30 // सर्वपक्षकणैरिति / सर्वपक्षकणैः सर्वेषां पक्षाणां सत्कार्यासत्कार्यसदसत्कार्यादिवादानामशैः, तुल्यं समान, वादिनः किञ्चित्किञ्चित्सर्ववादगतार्थमुपादाय वचनकुशलाः, सत्यतां स्वोक्तार्थसत्यता, विना अन्तरेण, च पुनः, समानाभ्युपपत्तिं समानोपपादकयुक्ति, विनेत्यनुषज्यते तत्तत्पक्षवाद्युपढौकितयुक्तिसदृशयुक्तिमन्तरेण, हि यतः, अमी वादिनः, जिह्म-रौक्षायुधाः कौटिल्यपारुष्यायुधाः कौटिल्येन पारुष्येण च वादि-प्रतिवादिन जयन्तीत्यर्थः // 30 // षण्णां वादच्छलानामाश्रयणेन वादी प्रतिवादिनं पराजयतीति वादच्छलज्ञानमावश्यकमित्याशयेन वादच्छलान्युपदर्शयति प्राश्निकेश्वरसौमुख्यं धारणा-क्षेपकौशलम् / सहिष्णुता परं धाष्टर्यमिति वादच्छलानि षट् // 31 //