________________ 316 दिवाकरकृता किरणावलीकलिता द्वादशो न्यायद्वात्रिशिका / सहस्त्रेणापि न प्राप्यत एवेति प्राप्तिविकल्पस्ताभ्यां, सर्वसिद्धेश्च सर्वनिर्णयसंभवाच, नार्थवत् प्रतिज्ञादिकं न प्रयोजनवत्, प्रतिज्ञादि कमन्तरेणापि तत्साध्यस्य निर्णयस्य संभवादित्यर्थः / / 26 / / अकारणनिर्णयभावश्च प्रकृतार्थलोपकार्यपि भवतीत्याह क्वचित् किञ्चित् कथञ्चिच्चेत्यनुपङ्गात् स लोपगः। कृताकृतविकल्पाभ्यां संशयप्रतिरूपतः // 27 // क्वचिद् इति। स अकारणनिर्णयसद्भावः प्रतिज्ञायां,क्वचिद् इत्यनुषङ्गात्, किञ्चदेवम् इति निर्णयः, कथञ्चिच्चेत्यनुषङ्गात् कथञ्चिदेवमिति निर्णयः, लोपगः प्रकृतार्थलोपं गच्छतीति प्रकृतार्थलोपकारीत्यर्थः पूर्वं क्वचिदित्यादिपदमनुपादायैव प्रतिज्ञा कृता, ततो वादिदूषणपरिहाराय क्वचिदित्यादिपदेन प्रतिज्ञार्थो विशेष्यते एवं सत्यन्य एव प्रतिज्ञातार्थोऽनुपक्रान्त एवाहतः स्यात् तन्निर्णयश्चाकारणको न नाम न स्यात् किन्तु यदर्थमियं कथाऽऽरब्धा सोऽर्थः प्रतिज्ञाबहिभूत इति न सिद्धयेदिति भावः, कृताकृतविकल्पाभ्यां संशयप्रतिरूपतः संशयो यथा विरुद्धधर्मद्वयसम्मिलितस्तथाऽयमपीति संशयस्वरूपानुकारित्वात् प्रकृतार्थलोपगः इत्यर्थः // 27 // . संशयप्रतिरूपत्वमेव प्रकारान्तरेण भावयति न नाम दृढमेवेति दुर्बलश्चोपपत्तितः। वक्तृशक्तिविशेषात् तु तत् तद् भवति वा नवा // 28 // न नामेति / यत् प्रतिज्ञातं तद् दृढमेव बाधितुमशक्यत्वात् सुनिश्चितमेवेति, न नैव, नामेति कोमलामन्त्रगे, अकारणकनिश्चियाभ्युपगमे तद्वाधोऽप्यकारणकः स्यादेवे ते, बाधे सति कथं दृढत्वम्, उपपत्तितः परवाद्युपन्यस्तबाधकयुक्तितः, दुर्बलश्च एवं सति यत् स्यात् तदाह--वक्तृशक्तिविशेषात् तु वक्तुरर्थव्यवस्थापनसामर्थ्यवैलक्षण्यात पुनः, तत् तद् भवति वा न वा यद्यथाप्रतिज्ञातं तत्तथा भवति प्रतिवादिसामर्थ्यकुण्ठित सामर्थ्यात् तु तत्तथा न भवत्यपीत्येवं संशयप्रतिरूपत्वमित्यर्थः // 28 //