________________ दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / 315 नोपदर्शयितुं शक्यं तावता वा मा भवतु नामेष्टसिद्धिः अनिष्टसिद्धिस्तु न कथमपीति पुनरुक्तमपाथैकादावन्तमुहूंतमतिरिक्तनिग्रहस्थानं भवतीत्यर्थः // 24 // पुनरुक्तवदायोज्यं हेतुवादान्तरोक्तये / समानीसङ्गसङ्कल्पं प्रश्नाकारणसिद्धयः // 25 // पुनरुक्तवदिति / पुनरुक्तवत् पुनरक्तं यथा नापार्थकादिरूपं तथापि कथायां निग्रहस्थानतयाऽऽयोज्यते, तथा हेतुवादान्तरोक्तये युक्तिवादान्तरोक्त्यर्थं प्रकृतवादादन्यो हेतुवादः प्रवर्ततामित्येतदर्थम् , 'समानीसंगसङ्कल्पं' इत्यस्य स्थाने 'समानीताङ्गसङ्कल्पम्' इति पाठो युक्तः / समानीताङ्गसंकल्पं समीचीनतयाऽऽनीतमुपनीतमङ्गस्य वादाङ्गस्य प्रतिज्ञादेः सम्यक्प्रकारेण कल्पनं यत्र तथाभूतमित्यर्थः, आयोज्यं समन्ताद् योजनीयम् , किमायोज्यमित्याकाक्षायामाह-प्रश्नाकारणसिद्धयः प्रश्नः पूर्वपक्षः अकारणसिद्धः अहेतुकनिर्णयश्च, प्रकृतकथाऽपरिसमाप्तावेव तदन्तराल एव प्रकृतानुपयुक्तार्थविषयकः प्रश्नः क्रियते निर्हेतुक एव कस्यचिदर्थस्य निर्णयः प्रतिपाद्यत इति वादान्तरस्यैवान्तराप्रवृत्तिः स्यात् न चेत्थमायोजन किञ्चिदिष्टनिबन्धनं न वानिष्टसाधनमिति पुनरुक्तवदेव निग्रहस्थानान्तरमित्यर्थः // 25 // तदभावात् प्रतिज्ञादि प्रत्येकं चानुपक्रमात् / कालप्राप्तिविकल्पाभ्यां सर्वसिद्धेश्च नार्थवत् // 26 // तदभावादिति / तदभावात् प्रतिज्ञादि' एतत्स्थाने 'तद्भावाच्चेत् प्रतिज्ञादि' इति पाठो युक्तः / तद्भावात् अकारणसिद्धिभावात् , चेत् यदि, प्रतिज्ञादि प्रतिज्ञा-हेतूदाहरणोपनय-निगमनपञ्चकं, प्रत्येकं त्वं एकैकं च, अनुपक्रमात् संशयजिज्ञासाद्युपक्रममन्तरेणैव, स्यादिति शेषः, कालप्राप्तिविकल्पाभ्याम् "काल: पचति भूतानि काल: संहरते प्रजाः / ___ कालः सुतेषु जागर्ति कालो हि दुरतिक्रमः // " इति वचनाद् यस्य यः काल: स तदा भवति नाकाले कश्चिज्जायते नियते वेति यद्यस्य कालः तदा कारणमन्तरेणापि स्यादेतत् यदि नास्य कालस्तदा कारणसहस्त्रेणापि न स्यादिति कालविकल्पः प्राप्तुं योग्योऽर्थः प्राप्यते, न प्राप्तु. मयोग्योऽर्थः प्राप्यते इति प्राप्तुं योग्यश्चेत् प्राप्तिः स्यादेव, प्राप्तुमयोग्यश्चेत् कारण