________________ 314 दिवाकरकृता किरणावलोअलिता द्वादशी न्यायद्वात्रिशिका / वा वह्निविशेषस्य ज्ञानं वह्निसामान्यस्य वा ज्ञानं न तावद् धूमसामान्यज्ञानतो वह्निसामान्यज्ञानस्य ज्ञानं, व्याप्तिग्रहणस्यैव वह्निसामान्यज्ञानतया तस्य धूमज्ञानकारणकत्वाभावात्, धूमसामान्यस्य वह्निविशेषव्यभिचारित्वेन धूमसामान्यज्ञानतो वह्निविशेषज्ञानमित्यपि न संभवतीति, धूमसामान्यवह्निसामान्ययोरेव व्याप्तिग्रहो न तु धूमविशेषवह्निविशेषयोरिति धूमविशेषज्ञानतो वह्निविशेषज्ञानमित्यपि न संभवति, वह्निसामान्यज्ञानं तु पूर्वमेव वृत्तं न पुनस्तदुत्पादोऽभीष्ट इति धूमविशेषज्ञानतो वह्निसामान्यज्ञानमित्यपि न सम्भवतीत्येवं प्रतिपत्तिविकल्पाच्चेत्यर्थः // 23 // जात्युत्तरे किञ्चिद् वक्तव्यमुपदर्य निग्रहस्थानमधिकृत्याह पुनरुक्तमसंबद्धात् साम्यः सामर्थ्यदर्शनात् / मन्त्रवच्चेति नापार्थ्य प्रसङ्गानिष्टसिद्धयः // 24 // पुनरुक्तमिति / 'साम्यः सामर्थ्यदर्शनात्' इत्यस्य स्थाने 'साम्यसामर्थ्य दर्शनात्' इति पाठो युक्तः, 'नापार्थ्यं प्रसङ्गानिष्टसिद्धयः' इत्यस्य स्थाने 'नापार्थ्यप्रसङ्गानिष्टसिद्धयः इति पाठो युक्तः। पुनरुक्तम् यत्र समानानुपूर्वीकं पदद्वयं वाक्यद्वयं वाऽविभिन्नार्थक विभिन्नार्थबोधाजनकं च तत्र पुनरुक्तनामकं निग्रहस्थानं भवति, एवं च असंबद्धात् पुनरुक्तयोः पदद्वययोर्वाक्यद्वययोर्वा मध्ये एकं पदान्तरेण वाक्यान्तरेण वाऽन्वितार्थबोधजनकत्वात् सम्बद्धं तदन्यच्च पदान्तरेण वाक्यान्तरेण वाऽन्वितार्थबोधाजनकत्वादसम्बद्धं तस्मादसम्बद्धात् , साम्यसामर्थ्यदर्शनात् साम्यं समानानुपूर्वीकत्वं, सामर्थ्यमन्वयबोधजननयोग्यत्वं तयोर्दर्शनाद् उपलब्धः, पुनरुक्तं पुनरुक्तनामकं निग्रहस्थानं भवति, मन्त्रवच्चेति यथा मन्त्रे 'ठः ठः स्वाहा, फट् फट् स्वाहा' इत्यादौ, तत्र समानानुपूर्वीकपदद्वयं सम्मिश्रणेऽपि पुण्यविशेषजनकत्वं तात्कालिकभूतप्रेत्याग्रुपद्रवोपशामकन्वतोऽपार्थकत्वं न भवति, तथा नापार्थ्यप्रसङ्गानिष्टसिद्धयः पुनरुक्तस्थलेऽपार्थकत्वप्रसङ्गो न सम्भवति समानानुपूर्वीकयोयोरपि पदयोर्वाक्ययोर्वा सार्थकत्वस्य सद्भावात्, तत्रैकं सार्थकं तदन्यदपार्थकमिति विनिगमनाविरहेण विशिष्य दर्शयितुमशक्यत्वात्, अनिष्टस्य कस्यचिदपि सिद्धिर्न पुनरुक्तात्, अनयोरेकतरादेवाभीष्टार्थस्य सिद्धेरन्यन्नेष्टसिद्धिनिबन्धनमिति सामान्यतः उपदर्शनसम्भवेऽपि विशेषतो