________________ दिवाकरकृता किरणावलीकलिता द्वादशो न्यायद्वात्रिंशिका / 313 सम्बद्धयते, एतावता सामान्यतोऽनिष्टकल्पनात् सामान्यतः प्रत्यवस्थानलक्षणा सामान्यसमा आतिः लोक-शास्त्र-धर्मविकल्पितोऽनभ्युपगमो न भवतीति प्रतिपादितं भवति, उपपत्त्याऽनिष्टकल्पनत उपपत्त्या प्रत्यवस्थानलक्षणोपपत्तिसमा जातिनिरुक्तानभ्युपगमो न भवतीत्याह-सिद्धशास्त्रलोकोपपत्तितः सिद्धोपपत्तिशास्त्रोपपत्ति-लोकोपपत्तिभ्योऽनिष्टकल्पनादुपपत्त्या प्रत्यवस्थानलक्षणोपपत्तिसमा जातिरुक्तानभ्युपगमो न भवति तत्र सिद्धा मन्त्रसिद्ध-तन्त्रसिद्धवचनसिद्धादिभेदेनानेकविधास्ते यथा वदन्ति तथा भवन्तीत्युपपत्त्याऽनिष्टकल्पन, सर्व सत्यं, सर्व मिथ्या, सर्व स्वप्नोपममित्याद्यनेकप्रकारोपदर्शकानि शास्त्राण्यनेकानि तदुपर्शितोपपत्तितः किं न कल्पयितुं शक्यमित्युपपत्त्याऽनिष्टकल्पनम्, तथा 'गतानुगतिको लोको न लोकः परमार्थिकः' इति लोका विभिन्नविचाराः तेषां स्वस्वमन्तव्यसमर्थनपरा उपपत्तयोऽनेकविधास्ताभिरनिष्टकल्पनमित्युपपत्त्याऽनिष्टकल्पनत उपपत्त्या प्रत्यवस्थानलक्षणोपपत्तिसमा जातिर्न भवत्युक्तानभ्युपगम इत्यर्थः / / 22 // सामान्येन प्रत्यवस्थानतोऽनिष्टकल्पनतो यथा सामान्यसमा जातिः या साधर्म्यसमा जातिः, तथा वैधम्र्येण प्रत्यवस्थानतोऽनिष्टकल्पनतो वैधर्म्यसमा जातिरुक्तानभ्युपगमविलक्षणेत्याह अन्यथेति च वैधर्म्यमापत्तिव्यभिचारतः / / प्रतिपत्तिविकल्पांच्च तत्सिद्धिः कृतसंभवात् // 23 // अन्यथेति चेति / अन्यथा च सामान्येन प्रत्यवस्थानलक्षण प्रकारेण पुनरित्यर्थः, वैधय॑म् वैधय॑समा जाति: वैधर्येण प्रत्यावस्थानतः किमनिष्टमित्याकाङ्क्षायामाह-आपत्तिव्यभिचारतः इति धूमो वह्निविधर्माऽपि यथा वह्नेर्गमकस्तथा जलादिरपि वह्निविधर्मा वह्निर्गमकः स्यादित्यापत्तेः, यथा च वह्निविधर्मा जलादिर्व्यभिचारान्न गमकस्तथा वैधाविशेषाद् धर्मादेरपि व्यभिचारादगमकत्वं स्यात् , 'तत्सिद्धिः कृतसम्भवात्' इत्यस्य स्थाने 'तत्सिद्धिकृतसंभवात्' इति पाठः संभाव्यते / आपत्तिव्यभिचारतः आपत्तिव्यभिचारसिद्धिप्रयुक्तसंभवो यस्य तस्मात्, प्रतिपत्तिविकल्पाच्च साध्यहेतुप्रतिपत्तयो विकल्पनतश्च किं धूमसामान्यज्ञानतो वह्निसामान्यस्य ज्ञानं वह्निविशेषस्य वा ज्ञानं धूमविशेषज्ञानतो