________________ 312 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / अनभ्युपगमो लोक-शास्त्र-धर्मविकल्पितः / सामान्याभ्युपपत्तिभ्यां न समोऽनिष्टकल्पनात् // 21 // अनभ्युपगम इति / “लोक-शास्त्र-धर्मविकल्पितोऽनभ्युपगमः सामान्याभ्युपपत्तिभ्यां न समोऽनिष्टकल्पनात्" इत्यन्वयः। अनभ्युपगमः कथायां दोषतयोद्भावनीयोऽभ्युपगमः अस्वीकारस्त्रिविधिः, लोक-शास्त्र-धर्मविकल्पतः लोकानभ्युपगमः शास्त्रानभ्युपगमो धर्मानभ्युपगमश्च वादिनोपदर्शितः कश्चिदर्थो लोकानभ्युपगमेन प्रतिवादिना दूष्यते यथा योऽयं भवतोपदर्शितः स लोकविरोधान्नाभ्युपगमार्ह इति, शास्त्रानभ्युपगमः भवतोपदशितोऽयं न भवदभ्युपगते शास्त्रे क्वापि समस्ति शास्त्रविरोधान्नैवमभ्युपगन्तुं शक्य इति, धर्मानभ्युपगमः भवदभ्युपगतैतद्धर्भविरोधादयं धर्मो नाभ्युपगन्तुमर्ह इति, त्रिविधोऽप्ययमनभ्युपगमः, सामान्याभ्युपपत्तिभ्यां न समः सामान्येन समतया प्रत्यवस्थानलक्षणा या सामान्यसमा जातिः अभ्युपपत्त्या प्रत्यवस्थानलक्षणाऽभ्युपपत्तिसमा जातिः तद्रूपो न, यतः अनिष्टकल्पनात् पराभीष्टस्यानभ्युपगमेनानिष्टकल्पनं भवति किन्तु तदिष्टसिद्धिः प्रतिहन्यते. जात्युत्तरतश्च यथा तवेदं प्रसिद्धयति तथा तवानिष्टमपि स्यात्, यथा द्रव्यत्वसामान्यवता धूमेन पर्वते वह्निः साध्यते यथा द्रव्यत्वसामान्यवता जलेन वह्निः किं न साध्यते ? यथा यत्किञ्चिदुपपत्त्येदमत्र तवाभिमतं तथा कस्याश्चिदुपपत्तेः सद्भावादिदमपि तवाभिमतं किं न स्यादिति प्रस्थानभेदादनभ्युपगमो जात्युत्तरतश्च भिन्न एवेत्यर्थः / / 21 / / सामान्योपपत्तिभ्यामनिष्टकल्पनमेव ग्रन्थकृत्प्रकारान्तरेणोपदर्शयति-- अन्योऽन्योभयसामान्यसर्वसङ्गविशेषतः / सामान्यघाततः सिद्धशास्त्रं लोकोपपत्तितः // 22 // अन्योऽन्योभयेति / 'सिद्धशास्त्रं लोको' इत्यस्यस्थाने 'सिद्धशास्त्रलोको' इति पाठी युक्तः। अन्योऽन्योभयसामान्यसर्वसङ्गविशेषतः अन्योऽन्यं परस्परम् उभयस्ववादिप्रतिवाद्यापादितवाद्यनिष्टोभयस्य यत् सामान्यस निखिलं सामान्य तस्य सङ्गविशेषतः सम्बन्धविशेषतः अनिष्टकल्पनादिति पूर्वपद्यादनुवर्तनीयं, सामान्यघाततः विरुद्धसामान्यसंसर्गविशेषतोऽभीष्टसामान्यहानात्, अनिष्टकल्पनादिति