________________ दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिशिका / 311 यत्रैकपक्षनिर्णयो भवति तत्र संशयो न भवत्येव निर्णीतात् तत एव हेतोरतः स्वपक्षप्रसिद्धितः कथापरिसमाप्तिरित्याह विनिर्णयान्न संदेहः सर्वथोत्तरसंभवात् / स एव हेतुश्चक्षुर्वन्नानिष्टप्रतिपत्तितः // 19 // विनिर्णयादिति / विनिर्णयात् विशेषेणैकपक्षस्य निश्चयतः, न संदेहः एकधर्मिणि विरुद्धो भवकोटिप्रकारकदोलायमानं न भवति, निश्चियस्य संशयविरोधित्वात् कुतो न संदेह इत्याकाङ्क्षायामाह-सर्वथा सर्वप्रकारेण, उत्तरसम्भवात् उत्तरपक्षप्रसिद्धिसम्भवात्, स एव हेतुः निर्णयजनक एव हेतुर्भवति, चक्षुर्वत् चक्षुर्यथा निर्णयजनकं तथा, न नैव, अनिष्टप्रतिपत्तितः अनिष्टस्य सन्दिधार्थ एव प्रतिपत्तितो ज्ञानतो हेतुर्न भवतीत्यर्थः // 19 // दृष्टान्तदूषणामोहो हानिपक्षाप्रसिद्धयः। वाचोयुक्त्युपपत्तिभ्यामत एव विपर्ययः // 20 // दृष्टान्तेति / दृष्टान्तदूषणामोहः दृष्टान्तस्यान्वयदृष्टान्तस्य दूषणं साध्यसाधनविपरीतव्याध्युद्भावनानिर्णीतसाध्यवत्त्वानिर्णीतसाधनवत्त्वानिर्णीतसाध्यसाधनोभयवत्त्वादि तथा व्यतिरेकदृष्टान्तस्य यद् दूषणं साध्याभावसाधनाभावविपरीतव्याध्युद्भावनानिर्णीतसाध्याभाववत्त्वानिर्णीतसाधनाभाववत्त्वानिर्णीतसाध्याभावसाधनाभावोभयवत्त्वादि, तस्यामोहः अज्ञानाभावः यथावत् परिज्ञानं, हानिपक्षाप्रसिद्धयः हानिः प्रतिज्ञाहानिः पक्षाप्रसिद्धिः साध्यविशिष्टधर्मिणः पक्षत्वेन विशिष्टस्य तस्याप्रसिद्धिः विशेषणीभूतसाध्याप्रसिद्धया विशेष्यीभूतधर्म्यप्रसिद्धया विशेषणविशेष्योभयाप्रसिद्धथा च सम्भवतीति साध्याप्रसिद्धिः धर्म्यप्रसिद्धिः साध्याधर्म्युभयाप्रसिद्धिश्च अत एव पक्षाप्रसिद्धय इति बहुवचनम् कथमेवमित्याकाक्षायामाह-वाचोयुक्त्युपपत्तिभ्यां दृष्टान्तदूषणामोहो न वचनमात्रेण हानिरपि न तथा, पक्षाप्रसिद्धिरपि नैवं, किन्तु वाचोयुक्त्या उपपत्त्या च कथायां तथा भाव्यते, अत एव वाचोयुक्त्युपपत्तिभ्यां दृष्टान्तदूषणामोहादिव्यवस्थापनादेव, विपर्ययः हेतुविपर्ययोऽहेतुर्भवति भनिष्टप्रतिपत्तेरित्यर्थः // 20 //