________________ 310 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / पृष्टः, यद्यभ्युपेयात् प्रमाणादीनि सन्तीति, यदि स्वीकुर्यात् तदा तेन सह कथां कुर्यात् किन्त्वेवमभ्युपगच्छतस्तस्य स्वपक्षसद्भावात् तत्स्थापनमावश्यकमिति कुतो वितण्डेति हृदयम्, इति स्वं स्वरूपा, नयस्य नैगमनयप्रसूतस्य न्यायदर्शनस्य, विचारणा अभ्युपगमपद्धतिः / तथाहि-'प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्तसिद्धान्त-न्यायावयव-तर्कनिर्णयः वाद-जल्प-वितण्डा-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः' इति गौतमसूत्रेण कथोपयोगिनः षोडशपदार्था दर्शिताः, ते च सर्वेऽप्यत्र यथायथं कथायामुपयोगितया व्यावर्णिता इति, सैव वितण्डैवेति जल्पे अल्पकथायां घटकत्वं सप्तम्यर्थः, विपर्यासः परपक्षखण्डनम्, जल्पघटकं यत् परपक्षखण्डनं तदेव वितण्डेति, तथा च वितण्डैवेति लक्ष्यते, जल्पनिरूपणेनापि वितण्डा कथैव लक्षिता भवति, यतः एकेन स्वपक्षस्थापनं यथाकथञ्चिद् विधाय परपक्षखण्डनं क्रियते तत्र परपक्षखण्डनं वितण्डव, अपरेणापि स्वपक्षस्थापनं कृत्वा परपक्षखण्डनं क्रियते इति परपक्षखण्डनं वितण्डैव, यद्यपि स्वपक्षस्थापनमुभयत्रास्ति तथापि तन्न मुख्यतयाऽभिप्रेतं किन्तु गौणतयैव, मुख्यतयाऽभिप्रेतं तु वादि-प्रतिवादिनोरुभयोरपि परपक्षखण्डनमेवे, यतः स्वस्य जयः परस्य पराजयश्चोभयोरपि प्रयोजनमभिलषितं, तौ च परपक्षखण्डनादेवेति, अत एवोक्तं श्रीहर्षेण जल्पस्यैका कथा न सम्भवत्येव वितण्डाद्वयशरीरत्वादिति // 17 // इदानीं कथायां यदावश्यकं तदुपदर्शयति न सिद्धान्ताभ्युपगमादितरः सार्वतन्त्रिकः / ___ यस्येत्युक्तमनेकान्तादितरं नानुषज्यते // 18 // न सिद्धान्ताभ्युपगमादिति / सिद्धान्ताभ्युपगमात् कथायां स्वसिद्धान्तस्य व्यवस्थापनीयतया परसिद्धान्तस्य खण्डनीयतयाऽभ्युपगमात् स्वीकारात्, इतरो भिन्नः, सार्वतन्त्रिकः सर्वतन्त्रसिद्धः, न न भवति, इति एवं, यस्य यस्य मते, उक्तं प्रतिपादितम् तस्येति दृश्यम्, अनेकान्ताद् वायुक्तहेतुदूषणार्थं व्यभिचारात्, इतरं भिन्नं, नानुषज्यते न सम्बन्ध्यते, व्यभिचारोद् भावनत एव हेतोदुष्टत्वसंभवे तद्भिन्नमकिञ्चित्करत्वात् कथायां नोद्भाव्यमित्यर्थः // 18 //