SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / 309 न्तराभ्युपगमः हेत्वन्तरस्य स्वीकारः, अतः परं अस्माद् व्यतिरिक्तम् , पुनरुक्तानि एतत्स्थाने 'पुनरुक्ताद्' इति पाठो युक्तः आदिपदान्निग्रहस्थानिग्रहस्थानान्तराणां परिग्रहः // 15 // एकपक्षहता बुद्धिर्जल्पवाग्यन्त्रपीडिताः / श्रुतसंभावनावैरी वैरस्यं प्रतिपद्यते // 16 // एकपक्षहतेति / एकपक्षहता वादि-प्रतिवादिपक्षद्वयमाश्रित्य तत्त्व. निर्णयार्थ प्रवर्तिता वादकक्षा नैकपक्षकदाग्रहगृहीता, किन्तु वादिपक्षः प्रतिवादिपक्षो वा यः प्रमाणतः उपपन्नो भवति स उभाभ्यामपि वादि-प्रतिवादिभ्यां स्वीकृतो भवति, तत एव च तत्त्वनिर्णयलक्षणं प्रयोजन वादिप्रतिवाद्युभयाभीष्टं सम्पद्यते, जल्पे तु यथाकथञ्चित् स्वपक्षस्थापनापूर्वकपरपक्षखण्डनात्मके विजयैकप्रयोजने एकपक्षहता वादिनः प्रतिवादिनो वा स्वस्मिन्नेव पक्षे प्रतिबद्धत्वादन्यपक्षप्रवर्तिता प्रामाण्यज्ञापनकदर्थिता, बुद्धिः मतिः, जल्पवाग्यन्त्रपीडिता जल्पकथालक्षणं यद्वाग्यन्त्रं तेन पीडिता येन केनापि प्रकारेण स्वपक्षोपजातबुद्धौ परापादितप्रामाण्यमवधूय प्रामाण्यव्यवस्थापनप्रयत्नपरपक्षोपजातबुद्धौ परोपपादितप्रामाण्यव्यवस्थापनयुक्ति कद कृत्य तत्त्वाप्रामाण्यव्यवस्थापनप्रयत्नाभ्यां पीडिता सती, 'श्रुतसंभावना वैरी' इत्यस्य स्थाने 'श्रुतसंभावनावैरि' इति पाठो युक्तः, श्रुतसंभावनावैरि श्रुतस्यागमार्थस्य या संभावना तस्याः वैरि शत्रुभूतं, यद् वैरस्यं विरसत्वं, तत् प्रतिपद्यते स्वीक्रियते विरसा भवति श्रुतार्थविमुखा भवतीति यावत् // 16 // तानुपेत्य वितण्डाऽस्ति नयस्येति विचारणा / सैव जल्पे विपर्यासो वितण्डैवेति लक्ष्यते // 17 // तानुपेत्येति / तान् प्रमाणादीन् सर्वतन्त्रसिद्धान्तान्, उपेत्य कथकेन स्वीकृत्य, वितण्डा स्वपक्षस्थापनाहीना परपक्षखण्डनरूपा कथा, अस्ति अभ्युपगमनीया स्यात्, सपर्यनुयुक्तो यद्यभ्युपेयादिति न्यायभाष्यवचनमत्र प्रमाणम् , तस्य वचनस्यायमर्थः, स वैतण्डिकः, पर्यनुयुक्तः प्रमाणादीन्यभ्युपगच्छति भवान् नवेत्येवं
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy