________________ 308 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / नानेकान्त एव व्यभिचारः किन्त्वन्योऽपि दोषो व्यभिचार तयाऽभ्युपेय इत्याह संशयः प्रति दृष्टान्तविरोधापत्तिहानयः / प्रतिपक्षविकल्यौ च व्यभिचारार्थपर्ययाः // 14 // संशयेति / संशयः संशेतेऽनेनेति संशयः, संशयहेतुरनेकान्तः, साधारणधर्मदर्शनादसाधारणधर्मदर्शनाद् विप्रतिपत्तश्च संशय इति वचनात् साधारणानेकान्तिकज्ञानमसाधारणानेकान्तिकज्ञानं संशयकारणमिति भवति अनेकान्तः संशय इति, अत एव"विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत्' इत्यत्र सन्दिग्धवद् नानैकान्तिकग्रहणम्, प्रतिदृष्टान्त-विरोधापत्तिहानयः प्रतिदृष्टान्तः वायुक्तानुमानदृष्टान्तविरोधी दृष्टान्तः, विरोधः साध्याभावव्याप्तो हेतुः, आपत्तिः प्रतिज्ञान्तरहेत्वन्तराप्रसिद्धान्तापत्त्यादिः, हानिः प्रतिज्ञाहान्यादिरित्येवं संशयप्रतिदृष्टान्तविरोधा रत्तिहानयः, प्रतिपक्ष-विकल्पो व प्रतिपक्षः वाद्युक्तानुमानहेतुसाध्यविरुद्धसाध्याभावसाधकहेतुः, विकल्पः किमिदं सामान्यं साध्यते विशेषो वेत्यादि विकल्पनमित्येव प्रतिपक्षविकल्पो, एते सर्वेऽपि, व्यभिचारार्थपर्ययाः व्यभिचारूनानुगामिनोऽर्थपर्यया भवन्ति एतेषु यस्य कस्याप्युपदर्शनव्यभिचारस्यैवोपदर्शनं कृतं भवति तेभ्योऽपि परपक्षो दूषिलो भवत् पेवेत्यर्थः // 14 // अकारणत्वान्निर्देशः साध्यत्वाद्यनुयोगजः / हेत्वन्तराभ्युपगमः पुनरुक्तान्यतः परम् // 15 // अकारणत्वेति / अत्र ‘अकारणत्वानिर्देशासाध्यत्वाद्यनुयोगजः' इति पाठो युक्तः / अकारणत्वानिर्देशलाध्यत्वाद्यनुयोगजः अकारणत्वानुयोगजः अयं हेतुः न संभवति प्रकृतसाध्येन समं कार्य-कारणभावादिति किं कारणं काय वैतल्लिङ्गमिति प्रश्नजः, अनिर्देशानुयोगजः योऽयं हेतुः प्रकृतसाध्यसाधकः संभवति स भवता न निर्दिष्टः निर्दिष्टश्च न प्रकृतसाध्यसाधनोऽविनाभावनिमित्ताभावदिति प्रश्नजः, साध्यत्वाद्यनुयोगजः योऽयं हेतुर्भवताऽभिहितः सोऽपि न सिद्ध इति साध्यसमत्वाद्धेतुर्न सम्भवतीत्येवं साध्यत्वात् त्वनुयोगजः, हेत्व