________________ दिवाकर कृता किरणावलीकालता द्वादशी न्यायद्वात्रिंशिका / 307 यामिति यावत् , इयमेव तु अनन्तरोपदर्शितप्रक्रियैव पुनः, भूयसी बाहुल्येन भवति // 11 // कथायां छलमप्याश्रियते, जयाभिकाक्षिभिस्तत् कथमित्याकाङ्क्षायामाहकिञ्चित् सामान्य-वैशेष्यादयुक्तार्थोपपादनम् / छलं तदिति वैस्पष्टयाद वाच्याभिप्रायभेदतः // 12 // किञ्चिदिति / किश्चित् सामान्य वैशेष्यात् सामान्योक्तरर्था अनेकप्रकारा भवन्ति तत्र वायुक्तसामान्यवचनस्य किञ्चित् सामान्य-वैशेष्यात्, अयुक्तार्थोपपादनं प्रतिवादिकृतं यदयुक्तस्याघटमानस्यार्थस्योपपादनं, तत् छलमिति, वैस्पष्टयात् स्पष्टार्थाभावतः, वाच्याभिप्रायभेदतः अन्याभिप्रायेण वादिनोकस्य प्रतिवादिनाऽन्याभिप्रायकल्पनतः, यथा नेपालादागतोऽयं नवकम्बलवानिति / नवत्वधर्माभिप्रायेणोक्तस्य नवशब्दस्य नवसंख्याभिप्रायं परिकल्प्य नवसङ्ख्यककम्बलवत्त्वं न विद्यतेऽस्येति नवकम्बलवानिति न युज्यते इत्येवं न वैस्पष्टयाद्, वाच्याभिप्रायमेदतोऽयुक्तार्थोपपादनं छलमित्यर्थः / / 12 // कथायां वायुक्तहेतौ दुष्टत्वप्रतिपत्तये व्यभिचार एवावश्यमुद्भाव्यः ततः उत्कृष्ट दूषणान्तरं नास्ति तस्मादेव परहेतौ सद्भावतः उत्तरपक्षो व्यवस्थितो भवतीत्याह व्यभिचारात् परं नास्ति परपक्षप्रदूषणम् / हेतुपर्यन्तयोगाच्च तस्मात् पक्षोत्तरो भवेत् // 13 // व्यभिचारादिति / व्यभिचारात् अनेकान्तात् , परं उत्कृष्टम् , परपक्षप्रदूषण परस्य वादिनः प्रतिवादिनो वा पक्षे प्रकृष्टं दूषणं दोषः, नास्ति न विद्यते, तत्र हेतुमाह-हेतुपर्यन्तयोगाच्च स्वपक्षसाधने हेतुः पर्यन्तो भवति न ततोऽन्यत् किञ्चित् साधकतमं, तस्मिन् हेतुपर्यन्तयोगात् सम्बन्धाच्च, तस्माद् व्यभिचारात् , पक्षोत्तरः पक्षान्तः, न ततः परं कश्चित् पक्षः प्रवर्तते तावतैव कथायाः समाप्तिः, भवेत् जायेत, अतः परहेतौ व्यभिचारयोजने यत्नो विधेय इत्यर्थः // 13 / /