________________ 306 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशका / रोपस्तर्कः, स च यत्र व्यभिचारशङ्कोदेति तत्र तन्निवृत्तिद्वारा व्याप्तिग्रहे उपयुज्यते, विषयपरिशोधकश्च तर्क आत्माश्रयाऽन्योऽन्याश्रयचक्रकानवस्थालाघवगौरवप्रमुखः, तत्र स्वस्य स्वापेक्षत्वमात्माश्रयः, स्वस्य स्वापेक्ष्यापेक्ष्यत्वमन्योऽन्याश्रयः स्वस्य स्वापेक्ष्यापेक्ष्या पेक्ष्यत्वं चक्रकम् अनवस्थितसजातीयपरम्परोपनिपातोऽनवस्था, एतेषु स्वं यदि स्वापेक्ष्यं स्यान्न स्यात् स्वभिन्नं वा स्यादित्येवमापादनं, लाघव-गौरवे च कार्य-कारणभावग्रहे प्रतिबध्य-प्रतिबन्धकमावग्रहे चोपयुज्येते, तदुक्तयः प्रमाणादीनां वचनानि कथायामुपयुज्यन्ते इत्यर्थः // 9 // कथायामन्योऽप्यभ्युपगमनीय उपदय॑ते लोकधर्मोऽभ्यनुज्ञातः सिद्धान्तो वागनियामकः / __ अङ्गधर्मविकल्पाभ्यां प्रमेयोपचयाचयौ // 10 // लोकधर्म इति / लोकधर्मः लौकिकप्रत्यक्षप्रमाणसिद्धो धर्मः, अभ्यनुशातः वादि-प्रतिवादिभ्यां स्वीकृतः, एतेन यथा लोकविरोधो न भवेत् तथैव वादि-प्रतिवादिभ्यां वक्तव्यमित्यावेदितम्, सिद्धान्तः वादि-प्रतिवादिभ्यां निर्णीतोऽर्थः सिद्धान्तः स सर्वतन्त्र-प्रतितन्त्राभ्युपगमाधिकरणसमानतन्त्रभेदेन पञ्चविधः, कथायां वादि-प्रतिवादिभ्यां प्रमाणादीन्यभ्युपगन्तव्यानि सर्वतन्त्रसिद्धान्तत इति सिद्धान्तो, वागनियामकः अनेन नियमेन वक्तव्यं वादिना, अनेन नियमेन च वक्तव्यं प्रतिवादिनेत्येवं वचसां नियामकः, अङ्गधर्मविकल्पाभ्यां साध्य -साधनाङ्गधर्मः येन साध्य-साधनमप्रतिघं भवति विकल्पः किमत्र सामान्यं साध्यं विशेषो वेत्यादिः ताभ्यां, प्रमेयोपचयाचयो, प्रमेयस्य साधनीयस्योपचयो वृद्धिः, अपचयो ह्रासः // 10 // अविद्यार्थानवगमो विरूपाप्रतिपत्तितः / हेत्वाभासश्च निर्वादेष्वियमेव तु भूयसी // 11 // . अविद्यार्थेति / अविद्यार्थानवगमः भ्रान्ते विषयीभूतार्थस्यानधिगतिः, विरूपाप्रतिपत्तितः विरूपस्य वैधर्म्यस्याज्ञानतः, वैधर्म्यस्याझनेन समानोऽयमित्येवं ज्ञानेन भ्राम्त्येदमवगतं मयेत्येवं न ज्ञायते, इति यावत् , हेत्वाभासश्च सव्यभिचारादिश्च, निर्वादेषु निर्वचनेषु पक्ष-प्रतिपक्षनियन्त्रितवादेषु वादकथा