________________ दिवाकरकृता किरणावलीकलिता द्वादशो न्यायद्वात्रिंशिका / 305 घटः कः ? कलशो घटः, कलशः कः ? कुम्भः कलश इत्येवं शब्दभेदमात्रं, अर्थस्तु य एव पूर्ववाक्यस्य सम एवोत्तरवाक्यस्येत्येवं पुनरुक्तार्थकं, विचारं उक्तिप्रत्युक्तिरूपं वचनसञ्चरण, सामान्यमलिनं सामान्यलक्षणानुगतार्थकलुषितं धिया पृच्छकपुरुषोत्तरदातृपुरुष द्वयबुद्धया, सम सार्धम् , संशय्यते संशयाक्रान्त, कोऽर्थः ? किं विवेचनम् , का बुद्धिरित्येवं सर्व सन्दिग्धं भवतीति यावत्, स संशयः अनन्तरोपदर्शितः संशयः, विशेषाय विशेष प्रतिपत्तये भवति, यावद्विशेषबुद्धयाधायकं वचनं नोपदर्यते तावत् कथा न परिसमाप्यते विशेषोक्तौ च कथापरिसमाप्तिरित्यर्थः // 8 // कथायां वक्तव्यान्युपदर्शयति प्रतिज्ञानिर्नयो हेतुर्दृष्टान्तं बुद्धिकारणम् / प्रमाणहेतुदृष्टान्तजातितास्तदुक्तयः // 9 // प्रतिज्ञेति / अन्वयो यथाश्रुतानुसारी। 'निर्नयो' इत्यस्य स्थाने 'निर्णयो' इति पाठो युक्तः / पक्षे साध्यवचनं प्रतिज्ञा तस्या निर्णयः प्रतिज्ञातार्थनिष्टङ्कन येन स प्रतिज्ञानिर्णयः प्रतिज्ञातार्थनिर्णयफलकः हेतुः तृतीयान्तं पञ्चम्यन्तं वा लिङ्गवचनम् , दृष्टान्तं वादि-प्रतिवादिनोर्यत्र साध्यहेत्वोः साध्याभावहेत्वभावयोर्वा निर्णयस्तद् दृष्टान्तं साधर्म्यदृष्टान्त-वैधHदृष्टान्तभेदेन द्विविधिम् , तत् बुद्धिकारणं अन्धयव्याप्तिबुद्धयतिरेकव्याप्तिबुद्धे, कारणम् , तत्र पक्षसाध्यहेतुव्याप्त्यादिसिद्धये प्रमाणादीनि वाच्यानीत्याह-प्रमाणहेतुदृष्टान्तजातितर्काः प्रत्यक्षादीनि प्रमाणानि पक्षप्रसिद्धिसाध्यप्रसिद्धयाद्युपयुक्तानि केवलान्वयि-केवलव्यतिरेक्यन्वयव्यतिरेक्यनुमाने साधर्म्यलक्षणः केवलव्यतिरेक्यनुमाने वैधर्म्यलक्षणः, अन्वयव्यतिरेक्यनुमाने साधर्म्यलक्षणो वैधय॑लक्षणश्च, असदनुमानमेतदित्यवगतये साधम्र्ये प्रत्यवस्थानवैधयेण प्रत्यवस्थानादिभेदा असदुत्तरं जातिरित्येतलक्षणाकान्तयोः विधिमुखेनापेक्षिताः, सदनुमानमेवैतजात्यस्पर्शादित्यवगतये निषेधमुखेनापेक्षिताः, तर्कः व्यापकाभाववत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापका