________________ 304 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / सामान्यस्य विशेषस्य च यौ विघातौ व्याप्तिपक्षधर्मतादि वैकत्वलक्षणौ ताभ्यां, हेत्वाभासोपजातयः हेत्वाभासस्यावान्तरभेदा भवन्तीत्यर्थः यत् किञ्चित् साध्यसाधकतयोच्यते वादिना प्रतिवादिना वा तत् सामान्यं विशेषो वा भवेत् तदन्यप्रकाराभावात् तच्च यदि साध्यसाधकं न भवति तदा तदहेतूच्यते, तस्यैव च व्याप्तिपक्षधर्मतादिहेतुलक्षणविशेषवैकल्प्यतो हेत्वाभासाद्यवान्तरमेदा भवन्तीति भावः // 6 // ___ कथायां प्रश्न-प्रतिविधानलक्षणौ द्वौ पक्षौ भवतः, न तु तत्र तृतीयः पक्षः, तयोरेकतरपक्षस्य यथावव्यवस्थापने अव्यवस्थापित स्वपक्षो द्वितीयः पराजितो भवति, व्यवस्थापितस्वपक्षस्तु जयो, नानान्यः प्रकारः कथयितुं सम्भवतीत्याशयेनाहद्वितीयपक्षप्रतिघाः सर्व एव कथापथाः / अभिधानार्थविभ्रान्तैरन्योऽन्यं तद् विप्रलप्यते // 7 // द्वितीयपक्षप्रतिघा इति / “सर्व एव कथापथाः द्वितीयपक्षप्रतिघाः अभिधानार्थविभ्रान्तैरन्योऽन्यं तद् विप्रलप्यते” इत्यन्वयः / सर्वे एव कथापथाः सर्वे एव कथामार्गाः; द्वितीयपक्षप्रतिघाः द्वितीयपक्षः प्रतिघः प्रतिरोधको येषां ते द्वितीयपक्षप्रतिद्याः वादि-प्रतिवादिनोरन्यतरपक्षव्यवस्थितौ वादजल्पवितण्डा. न्यतमात्मकाः सर्वकथाप्रकाराः परिसमाप्यन्ते, न तु तदनन्तरं कथा प्रचलति, तत एव कथाप्रयोजनस्य तत्त्वनिर्णयजय-पराजयान्य तमप्रयोजनस्य सम्भवति , अभिधानार्थविभ्रान्तैः शब्दार्थविषयकान्तिज्ञानवद्भिर्वादि-प्रतिवादिभिः, अन्योऽन्यं परस्परं, तद् विप्रलप्यते विरुद्धः प्रलापः क्रियते // 7 // विशेषप्रतिपत्तिफलिकां कथामुपदर्शयति समं संशय्यते यत्र सामान्यमलिनं धिया / विचारं पुनरुक्तार्थं विशेषाय स संशयः // 8 // सममिति / “यत्र पुनरुक्तार्थ विचारं सामान्यमलिन धिया समं संशय्यते, स संशयः विशेषाय" इत्यन्वयः / यत्र यस्यां कथायां, पुनरुक्तार्थ