________________ दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / 303 त्वप्रसिद्धशब्दार्थग्रहणं, च पुनः, यः पुमान् , जात्यन्धपः जात्यन्धान जन्मान्धान् पातीति जात्यन्धपः जन्मान्धजनगोष्ठीपरिबृढ इति यावत्, स उक्तः पुरुषः, तन्त्रयुक्तिषु शास्त्रोक्तयुक्तिषु, स्वयं प्रवक्तारं स्वयमेव प्रकर्षेण वक्तारं, न उपास्ते न सेवते, प्रसिद्धशब्दार्थपरिज्ञानतो जात्यन्धस्वामित्वेन च कृतकृत्यो नान्यं स्वतो विशिष्टमुररीकरोति एव तावन्मात्रमेव ज्ञानमित्युररीकृत्य न तन्त्रयुक्तिज्ञानापेक्षी शास्त्रार्थ च वितण्डामात्रमित्युपेक्षते इत्यर्थः // 4 // सूक्ते यस्य कस्यचिदर्थस्य यः कश्चिच्छब्दोऽभिलाषकः सोऽभिधातव्यो न तु तत्रायमेवाभिधातव्यो नान्य इति नियम इत्युपदर्शयति दुरुक्तानि निवर्तन्ते सूक्ते नास्ति विचारणा / पुरुषो ब्राह्मणः विप्रः पुरुषो वेति वा यथा // 5 // दुरुक्तानीति / अन्वयोऽत्र यथाश्रुतानुसारी / दुरुक्तानि विशेषप्रवचनं, पूर्व विशेष्यवचनं ततः इति नियममुल्लङध्य वचनानि, दुरुक्तानि तानि, सूक्ते निवर्तन्ते न भवन्ति, येन केनापि प्रकारेण विशेषण-विशेष्य. वचने दुरुक्तता न भवतीति विचारे प्रस्तुते दुरुक्ततादोषतयोपेयते न तु विचाराभावे इत्याह-नास्ति विचारणा सूक्ते विचारणा नास्ति, उपदेशात् खलु सा, न तु शास्त्रार्थे, तब दृष्टान्तमाह-यथा पुरुषो ब्राह्मण इत्यप्युच्यते, विप्रः पुरुष इत्यप्युच्यते, विचारणाऽस्ति एवं सूक्तेऽपीत्यर्थः / / 5 // कथायामहेत्वादिकं निग्रहप्रयोजकं तत् किमित्याकाङ्क्षायामाह-- न सामान्य-विशेषाभ्यामृतेऽन्याहेतु जायते / / तद् विशेष-विधाताभ्यां हेत्वाभासोपजातयः // 6 // न सामान्यविशेषाभ्यामिति / 'सामान्य-विशेषाभ्यामृतेऽन्याहेतु न जायते, तद्विशेष-विघाताभ्यां हेत्वाभासोपजातयः" इत्यन्वयः। सामान्य विशेषाभ्यामृते सामान्य-विशेषौ परित्यज्य, अन्याहेतु अन्यच्च तदहेतु च अन्या. हेतु हेतुभिन्नमहेतु, न जायते न भवति, यत् किञ्चिदसाधकं भवति तत् सामान्यंवा स्यात् विशेषो बा, न तु तद्वयतिरिक्तमित्यर्थः, तद्विशेष-विधाताभ्यां