________________ 302 दिवाकरकृता किरणावलीकलिता द्वादशी न्यायद्वात्रिंशिका / अभिष्ट्रवन्तीति / "नृपुङ्गवा नृगोष्ठयां यत् स्वैरं असत्सन्दिग्धमुक्तानि अभिष्टुवन्ति तेन कृषाः कृपात्मक':' इत्यन्वयः / नृपुङ्गवाः मनुजप्रधाना विद्वांसः, नृपगोष्ठयां राजसभायां, यत् यस्मात् , स्वैरं अनन्यप्रेरणया स्वेच्छया असत्सन्दिग्धमुक्तानि असदर्थसन्दिग्धार्थरहितानि, अभिष्टुवन्ति अभितः सर्वप्रकारेण स्तुवन्ति, तेन तेन हेतुना, कृषाः कर्षन्तीति अधर्मपथात् प्रच्याव्य धर्ममार्गे कुर्वन्ति आकर्षन्ते स्थापयन्तीति / कृपात्मकाः कृपात्मानः स्वभा. वतः प्राणिभये कृपाशीला इत्यर्थः / / 2 / / शब्दार्थाभिज्ञ प्रशंसतिप्रगद्वृत्तान्तगहनाद् विश्लिष्य प्रहता गिरः / योजयत्यर्थगम्या यः शब्दब्रह्म भुनक्ति सः // 3 // प्रगवृत्तान्तेति। 'प्रगवृत्तान्तगहनाद् विश्लिष्य प्रहता अर्थगम्या गिरः यो योजयति स शब्दब्रह्म भुनक्ति' इत्यन्वयः / प्रगदवृन्तान्तगहनात् प्रभूतातिप्राचीनवृत्तान्तशास्त्रवनात् , विश्लिष्य विश्लेषं प्राप्य, प्रहता समासधातु-प्रत्ययादिभिः प्रकर्षेण हन्यमानाः, अर्थगम्या अर्थः गम्यो विचाराधिगम्यो यासु ता अर्थगम्याः, गिरः वचांसि, योजर्यात तत्तदर्थवत्तया सङ्गमयति यः यः कश्चिन्नृपुङ्गवः स उक्त पुरुषः, शब्दब्रह्म शब्दस्वरूपं यद् ब्रह्म तच्छब्दब्रह्म, तद् स भुनक्ति तदनुभवं करोति, यतः कुतश्चित् सन्दर्भादतिगूढार्थात् पृथग्भूयागतमपि वाक्यखण्डलवं यः कश्चिदस्य वाक्यस्यायमर्थो भवितुमहतोति स्वयमेव विचार्यस्तदङ्ग भवति स नूनं शब्दब्रह्मानुभवस्वभाव इत्यर्थः / 3 // शब्दार्थज्ञानमात्रपरितुष्टो जनो न तन्त्रयुक्तिज्ञमनुसरति इत्यतो न शास्त्रार्थाधिकारी सदित्याशयवान् तमुपदर्शयति प्रसिद्धशब्दार्थगतिआज जात्यन्धपश्च यः / न स स्वयं प्रवक्तारमुपास्ते तन्त्रयुक्तिषु // 4 // प्रसिद्धति / "प्रसिद्धशब्दार्थगतिर्ज्ञानं जात्यन्धपश्च यः स तन्त्रयुक्तिषु स्वयं प्रवक्तारं न उपास्ते' इत्यन्वयः / अत्र यस्येति दृश्यं प्रसिद्धशब्दार्थतिशनि यस्य यस्य पुरुषस्य ज्ञानं प्रसिद्धो यः शब्दस्मार्थस्तस्य गतिरवगमः, न