________________ . द्वादशी न्यायद्वात्रिंशिका / गूढार्थाऽपि विचारणैकसुगमा वीरस्तुतिर्भ क्तिआ शास्त्रार्थेऽपि समाहता मतिमतामानन्ददा धीधनैः / इत्येवं तु विभाव्य कोविदवरः श्रीसिद्धसेनोऽनघां नव्यां यां स्तुतिमुक्तवान् सुविवृतिं तस्यास्तु लावण्यजा // शास्त्रार्थकरणे लज्जैव तावत् प्रतिबन्धिका तां परित्यजतो यकिञ्चिद्वाचनबलात् सामर्थ्यात् सर्वैरपि शास्त्रार्थो युक्तायुक्त विवेकविकल: कर्तुं शक्यत इत्याहदैवखातं च वदनमात्मायत्तं च वाङ्मयम् / / श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ? // 1 // दैवखातं चेति / “वदनं च दैवखातं, वाङ्मयं च आत्मायत्तं, उक्तस्य च श्रोतारः सन्ति, को निर्लजो न पण्डितः' इत्यन्वयः / वदनं च मुखं तु, दैवखातं दैवेनादृष्टेन खनितं, न तु केनापि मनुष्येण कृतं येन तन्निर्माता पुरुषो वदनं निरोढुं शक्येत, वाङ्मयं च वचननिकुरम्बं च, आत्मायत्तं वक्तुं स्वाधीनं यदा यद् वक्तुमिच्छति तदा तद् वक्तुं शक्नोति, यद्यात्मायत्तं तन्न भवेत् किन्त्वन्यपुरुषाधीनं स्यात् तदा तत्र स्वतन्त्रस्यान्यपुरुषस्य तद्वचनोद्गारानिच्छायां वक्तुस्तदिच्छायां सत्यामप्यन्यपुरुषप्रतिबन्धात् तन्न भवेदपि न चैवम् , उक्तस्य च अन्यपुरुषोच्चारितस्य सत्यस्यासत्यस्य वा वचनस्य च, श्रोतारः श्रवणकर्तारः पुरुषाः, सन्ति विद्यन्ते, यदि ते न स्युस्तदा स्वाधीनमपि वचनं प्रयोजनाभावान्नोच्चरितं स्यान्न चैवम्, एवं सति को निर्लज्जः को लज्जारहितः पुरुषः, न पण्डितः पण्डितो न भवति अपि तु युक्तमयुक्तं वा सत्यमसत्यं वा यत् किमपि प्रलपन् लज्जारहितः पुरुषः पण्डित एवेत्यर्थः // 2 // निर्णीतसदर्थवक्तृन् स्तौति- अभिष्टुवन्ति यत् स्वैरं नृपगोष्ठयां नृपुङ्गवाः / असत्संदिग्धमुक्तानि कृषास्तेन कृपात्मकाः // 2 //