________________ 338 दिवाकरकृता किरणावलीकलिता त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका / Vvvv .wwwwwwwwwwwwwwwwwwwwww अहो इति / अहो इति आश्चर्ये, दुर्गा दुःखेनावाप्तुं शक्या, गुणमतिः सत्त्वादिगुणज्ञानम्, नामेति कोमलामन्त्रणे, यत् यस्मात्, मोक्षाय मोक्षाधिगतये, दुर्गम् दुर्गमिव यथा नृपः पुराणां प्रतिपक्षनृपप्रवेशप्रतिबन्धाय चतुर्दिक्षु परिखामिधेयखातं दुर्ग भवति तथा मोक्षस्य झटित्यधिगतिप्रतिबन्धाय गुणमतिरिति, अतः कथञ्चिदेव मुञ्चन्ति मुक्ता भवन्ति, "स्वपन् मन्दाभिसातिकः” इत्यस्यार्थो न ज्ञायते विचारणीयोऽयं पाठः // 31 // साङ्ख्यमतमुपसंहरतिचक्षुर्यत् पुरुषो भोक्ता बन्ध-मोक्षविलक्षणः / कृतार्थैः संप्रयुक्तोऽपि शून्य एव गुणैरिति // 32 // चक्षुर्यदिति / चक्षुर्यत् चक्षुर्यथा साक्षात् पश्यदालोचयत्येव केवलम्, न तु संकल्प-विकल्पादिकं करोति तथा, पुरुषः कूटस्थमित्यचेतमः, भोक्ता बुद्धयु. पनीतं सुख-दुःखादिकं भुङ्क्त न तु ममेदं सुखमिन्याद्यध्यवस्यते, यतः बन्धमोक्षविलक्षणः बन्ध-मोक्षाभ्यां विलक्षणः न बद्धो नापि मुक्तः, यदुक्तम् "तस्मान्न वध्यतेऽद्धा न संसरति नापि मुच्यते पुरुषः / संसरति मुच्यते च नानाश्रया प्रकृतिः // 16 // " इति / कृतार्थैः कृतो निष्पादितः अर्थः पुरुषस्य विषयोपभोगविवेकख्यातिलक्षणो यैस्ते कृतार्थाः तैः, यदुक्तम् "रङ्गस्य दर्शयित्वा निवर्त्तते नर्तकी यदा नृत्यात् / पुरुषस्यात्मानं प्रकाश्य विनिवर्तते प्रकृतिः // 17 // प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति / या दृष्टाऽस्मीति पुनर्न दर्शनपथमुपैति पुरुषस्य // 18 // " इति / गुणैः बुद्धयात्मकतया परिणतैः सत्त्व-रजस्तमोभिः, सम्प्रयुक्तोऽपि संवृद्धोऽपि पुरुषः, यद्यपि मुक्तिदशायां बुद्धिः प्रकृतौ लोयते तथापि केवलिनः प्रारब्बकर्मोपभोगसम्पत्तये संस्काररूपेणावतिष्ठत एव, अथवा मुक्तावपि समतयाऽवस्थितैः प्रकृतिस्वरूपैर्गुणैः संबद्धोऽपि, शून्य एव सर्वप्रकृतिविकाररहित एव यदुक्तम्