________________ 298 दिवाकरकृता किरणाक्लीकलिता एकादशी द्वात्रिशिका / भवन्ति, न तु तव मित्या अन्यस्वामिषु क्षेत्रेषु तेजस्विनोऽपि अभिलाषा समु. त्पद्यते, यत्कान्तावदनेषु स्वाङ्गनामुखेषु, पत्ररचना सुशोभाकृतये चित्रविशेषनिर्मितिः न तु स्वप्रतिमल्लेषु बाणपक्षस्य सन्निवेशः, साहाय्यार्थं भवत्सैन्यागमनमित्याऽन्येन सम संग्रामस्यैवाभावात्,ते मन्त्रिणां तव राज्यरक्षानिमित्तमन्त्रणापरायणानां प्रधानानां, सङ्गश्च तदानुकूल्यसम्पत्तये विविधोपायनादि प्रददता मैत्री. कस्मम्, द्विषतां शत्रणां, मनोनुगतया मनःप्रविष्टया, तव कीर्त्या यशसा, सत्सर्वमनन्तरोपदर्शितमखिलं, अपराद्धमनभिप्रेतकरणमित्यर्थः // 26 // धर्मावतारं वाऽवतारं कलौ दृष्ट्वा विधातुः संशयः समुत्पन्न इत्युपदर्शयतिक्रमोपगतमपास्य युगभागधेयं कले स्पर्वणि य एष ते कृतयुगावतारः कृतः / भवेदपि महेश्वरस्त्रिभुवनेश्वरो वाऽच्युतो ..विधातुरपि नूनमद्य जगदुद्भवे संशयः // 27 // क्रमोपगतमपीति / "कलेर्युगभागधेयं क्रमोपगतमपि अपास्य अपर्वणि य एष ते कृतयुगावतारः कृतः नूनमद्य जगदुद्भवे विधातुरपि महेश्वरः त्रिभुवनेश्वरो वाऽच्युतो भवेदपि इति संशयः" इत्यन्वयः। कलेः तुर्ययुगस्य कलियुगस्य, युगभागधेयं युगांशम् , क्रमोपगतमपि प्रथम कृतयुगं ततो द्वितीय त्रेतायुगं, ततस्तृतीय द्वापरयुग, ततस्तुर्य कलियुगमित्येवं क्रमप्राप्तमपि, अपास्य परित्यज्य, अपर्वणि असमये, य एष योऽयं परिदृश्यमानः, ते तव, कृतयुगावतारः प्रथमयुगस्य कृतयुगस्य तपोदान-यज्ञदानेतिपदचतुष्टय सम्पूर्णधर्मस्वरूपावतारः, कृतः विहितः, नूनं निश्चितम् मन्ये शके ध्रुवं प्रायो नूनमित्येवमादिभिः / उत्प्रेक्षा व्यज्यते शब्दै रिवशब्दोऽपि तादृशः // इति वचनान्नूनंशब्देनायमर्थ उत्प्रेक्ष्यत इति गम्यते तदेवोत्प्रेक्ष्यमुपदर्शयतिअद्य तवावतारसमये, जगदुद्भवे जगदुत्पत्तौ, विधातुरपि ब्रह्मणोऽपि, अयमिति