SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 297 वा अथवा, नाशयति सुख-दुःखोपभोगसम्पादनेनाशेषकर्मक्षयात् सुख-दुःखमयं जगद् विनाशयति, भाग्यं परित्यज्य स्वातन्त्र्येण न कोऽपि पुरुषो जगत् सृजयति विनाशयति चेत्यर्थः / स्वातन्त्र्ये अष्टलक्षणसहकारिकारणमन्तरेणैव सामर्थे, विशिष्टाः प्रजाः सुखैकस्वरूपाः, प्रजाः स्रष्टुं उत्पादयितुं, कथं न किमिति न, ईश्वरस्य जगत्कर्तुः, वशः सामर्थ्यम्, सृजेच्च शुभमेवैकमनुकम्पाप्रयोजित इत्यादिवचनात्, सभासु पण्डितानां सम्मिलनस्थानेषु, वक्तृयशः सुष्ठ्वयं वक्तीति कोतिः, चिरं बहुकालं, लब्धं प्राप्तम् इति हेतोः, अद्य स्याद्वादिनां समागमसमये, तेजस्विनां लोके प्रकर्षप्राप्तप्रतापोपगतानां, तापः स्वाभ्युपगतजगत्कर्तृव्यवस्थापनासामर्थ्येन परितापः, एवं सति यथा हे राजन्, तव भवतः, इच्छामात्रसुखं जगत् इदं मे स्यादिदं मे न स्यादितीच्छामात्रसुखम् , जगत् वस्तुतो जगति सुखं नास्तीति, तथा ईश्वरोऽपि परपरिकल्पितेश्वरोऽपि, ईदृशः इच्छामात्रस्वरूप एव न तु यथा परैरुपकल्प्यते तथा स समस्तीति तदभावादेव तद्रूपतया भवतो वर्णनं न सम्भवतीत्यर्थः // 25 // यद्यद्वीरप्रभुराज्ञः कील् शत्रुहृदयानुगतया शत्रूणां कृतं तदुपवर्णयतिगण्डेष्वेव समाप्यते विवदतां यद् वारणानां मदो यद्वा भूमिषु यन्मनोरथशतैस्तुष्यन्ति तेजस्विनः / यत्कान्तावदनेषु पत्ररचना सङ्गश्च ते मन्त्रिणां तत् सबै द्विषतां मनोऽनुगतया कीर्त्याऽपराद्धं तव // 26 // गण्डेष्वेवेति / "विवदतां वारणानां मदो गण्डेष्वेव यत् समाप्यते, यद्वा भूमिषु मनोरथशतैस्तेजस्विनः तुष्यन्ति, यत्कान्तावदनेषु पत्ररचना, ते मन्त्रिणां सङ्गश्च, द्विषतां मनोऽनुगतया तव कीर्त्या तत्सर्वमपराद्धम्' इत्यन्वयः / विवदतां अन्योऽन्यं युद्धयता, वारणानां गजानां, मदः मदजलं, गण्डेष्वेव गण्डस्थलेष्वेव, यत् समाप्यते तत्परिपूर्ण भवति, एवकारेण मित्या भवत्सेनया युद्धमशक्यं मत्वा न तत्रानारब्धे शत्रुगजानां मद उपयुज्यते इति दर्शितम्, यद्वा अथवा, भूमिषु स्वस्वस्वत्वतया व्यवस्थितक्षेत्रेषु, मनोरथशतैः इयं भूमिर्मम भवतु इयं भूमिर्मम भवत्विति मनःकामनाशतैः, तेजस्विनः पराक्रमशालिनः, तुष्यन्ति सन्तुष्टा
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy