________________ 296 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / दीप्तिः तया साम्यं कथमेष्यति"इत्यन्वयः। अयनविषमा अयनाभ्यामुत्तरायणेदक्षिणायनाभ्यां विषमा असमा, याशी उत्तरायणे दीप्तिः ततो विसदृशी दक्षिणायने द प्तिः सकलैरनुभूयते, परिभवसुखं परिभवेन अन्यतेजसां आक्रमणेन सुखं यथा स्यात् तथा, दिनक्षयपेलवा दिनक्षये दिनहासे पेलवा सुकोमला सर्वसहा, अन्यतेजसामाक्रमणेन सुखं किं न जातं तत एव सुसहा सम्पन्नेति, एवंभूता भानोः सूर्यस्य, दीप्तिः कान्तिः, मत्तैः मत्तैः वोप्सया अत्यन्तमत्तैः, घनैः मेघैः, विलप्यते तिरोहिता भवतीति, अथवा परिभवसुखमिति मत्तरित्यनेनान्वेति परिभवेनान्यतिरोधानेन सुखं यथा स्यात् तथा मत्तैः, मदोन्मत्ताः कर्तव्याकर्तव्यविवेकविकला अन्येषां परिभवेन सुखं कलयन्तीति, हे नरपते ! हे राजन् ! सततसकला सततं सर्वदा सकला सम्पूर्णा, निासङ्गं व्यासङ्गमन्तरेण, कदाचिच्छीतला कदाचिन्नैवमित्येवं प्रकारमन्तरेण, समाधितशीतला सम्यक्तया आश्रितः शीतलस्पर्शो यस्यां सा समाश्रितशीतला, दीप्तिः कान्तिः, तया भानुदीप्त्या, साम्यं सादृश्यं, कथमेष्यति कथं प्राप्स्यति न कथञ्चित् प्राप्स्यतीत्यर्थः // 24 // ___ईश्वरो यथा परैरुररीक्रियते तथा न संभवतीति तद्रूपतया त्वद्वर्णनं न युक्तसित दर्शयतिको नामैष करोति नाशयति वा भाग्येष्वधीनं जगत् स्वातन्त्र्ये कथमीश्वरस्य न वशः स्रष्टुं विशिष्टाः प्रजाः। लब्धं वक्तृयशः सभास्विति चिरं तापोऽद्य तेजस्विना मिच्छामात्रमुखं यथा तव जगत् स्यादीश्वरोऽपीदृशः॥२५॥ को नामैष इति / “भाग्येष्वधीनं जगत् को नामैष करोति वा नाशयति, स्वातन्त्र्ये विशिष्टाः प्रजाः स्रष्टुं कथं न ईश्वरस्य वशः, सभासु वक्तृयशः चिरं लब्धमिति अद्य तेजस्विनां तापः यथा तव इच्छामात्रसुखं जगत्, तथेश्वरोऽपीदृशः स्यात्' इत्यन्वयः / भाग्येषु अदृष्टेषु, अधीनं परतन्त्रं, जगत् सुखदुःखमयं विश्वम् , जगति जीवानां स्वस्वपुराचरितकर्मजनितमेव सुखं दुःखं वोपजायते, नामेति कोमलामन्त्रणे, क एष करोति सुख-दुःखमयं जगद् विदधाति,