________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 295 तदेतत् संपूर्ण द्वितयमपि येनाधपुरुषे श्रुतं वा दृष्टं वा स वदतु यदि त्वा न वदति // 23 // शतेष्वेक इति / “शतेष्वेकः शूरो यदि कश्चिन्नयपटुर्भवति, तथा दीर्घापेक्षी सन् रिपुविजयनिःसाध्वसपरो भवति, तदेतद् द्वितयमपि सम्पूर्ण भाद्यपुरुषे येन श्रुतं वा दृष्टं वा, स वदतु यदि त्वा न वदति" इत्यन्वयः। शतेषु शतसंख्यकेषु जनेषु, शतेष्वित्युपलक्षणं सहस्रादीनामपि, एकः एक एव जनः, शूर: वीरः एकदैवानेकैः समं योद्धं समर्थः, यदीति सम्भावनायां, सम्भाव्यते चैवं शतेष्वेकः शूरो भवितुमर्हतीति, कश्चित् कोऽपि नरः, नयपटुः नीतिज्ञो यथावन्नयपरिपालनसमर्थो वा, भवति स्यात्, तथा एवम् , दीर्घापेक्षी इदं वस्तु बहुकालेन सम्पत्स्यते न तु शीघ्रमित्येवं दीर्घकालमपेक्षत इति दोर्घापेक्षी सन्, रिपुविजयनिःसाध्वसपरः परिपूर्ण शत्रुविजयेन निर्भीकतायां तत्परो भवति, तदेतद्वितयमपि अनन्तरोपवर्णितं द्वितयमपि, सम्पूर्ण परिपूर्ण, आद्यपुरुष प्रधानपुरुषे, येन येन केनापि पुरुषेण, श्रुतं वाऽन्यपुरुषोच्चरितवाक्यजन्यज्ञानविषयीकृतं वा, दृष्टं वा स्वयं साक्षात्कृतं वा, स श्रोता, द्रष्टा वा पुरुषः, क्दतु कथयतु, यदि त्वा त्वां, न वदति न कथयति, भवन्तं उक्त्वा नान्यस्मिन् पुरुषे एतद्वितयं समस्तीति यदि महावीरे एतद्वितयं समस्तीत्येवं ब्रूयात् तदा तत् कथं सम्भवति अन्यथा तु नान्यत्रैतद् द्वितयं केनापि श्रुतं दृष्टं वेति न तद्वचनं सम्भवतीत्यर्थः // 23 // सूर्यदीप्तितो विलक्षणा नृपदीप्तिस्तदुपमया स्तोतुमशक्येत्युपदर्शयतिअयनविषमा भानोर्दीप्तिर्दिनक्षयपेलवा परिभवसुखं मत्तैमत्तैर्घनैश्च विलुप्यते / सततसकला निासङ्गं समाश्रितशीतला तव नरपते ! दीप्तिः साम्यं तया कथमेष्यति ? // 24 // __ अयनविषमेति। "अयनविषमा दिनक्षयपेलवा परिभवसुख भानोः दीप्तिः मत्तमत्तघनैश्च विलुप्यते, हे नरपते ! सततसकला निर्व्यासङ्गं समाश्रितशीतला तव