________________ 294 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिशिका / अन्यनृपतो वर्द्धमाननृपस्य वैशिष्ट्यं ख्यापयतिमहीपालोऽसीति स्तुतिवचनमेतन गुणों महीपालः खिन्नामवनिमुरसा धारयति यः / यदा तावद् गर्भ त्वमथ सकलश्रीस्त्वसुमति किमेयायुष्मान् नवशिवमिमां पश्यति महीम् // 22 // महीपालोऽसीतीति / अत्र त्वसुमति' इत्यस्य स्थाने 'वसुमती' इति. 'किमेया' इत्यस्य स्थाने 'किमेवा' इति, 'नवशिवमिमां' इत्यस्य स्थाने 'नवशिवमितां' इति च पाठो युक्तो भाति / “महीपालोऽसीति स्तुतिवचनमेतत् गुणजं न, खिन्नामवनि उरसा यः महोपालः आयुष्मान् सकलश्रोस्त्वं यदा तावद् गर्भे, अथ वसुमती ते नवशिवमितां महीं किमेव पश्यति'' इत्यन्वयः। महीपालोऽसोति स्तुति वचनं त्वं महीपालोऽसीत्येवं स्तुतिवचनं एतत् गुणजं गुणप्रभवं, महीं पालयतीति महोपाल इत्यन्वर्थक, न न भवति, खिन्नां दुःखितां, अवनि पृथिवीम् , उरसा उरःस्थलेन, यः यः कश्चित् पुरुषः तदीयदुःखनिवारणार्थ धारयति, स पुरुषः महीरक्षकत्वात् महोपालः यच्छब्दस्य नित्यसम्बन्धस्योपादानतस्तच्छब्दोऽवगम्यते, आयुष्मान् चिरजीवी, सकलश्रीः सम्पूर्णलक्ष्मीकः, त्वं वर्द्धमानः, यदा यस्मिन् काले, तावदिति वाक्यालङ्कारे, गर्भ मातुः वसुमत्याः उदरे अवतीर्णः, अथ तदा, वसुमती तव माता, सकलश्रोरित्यस्या अपि विशेषणं सम्भवति, ते तव, नव. शिवमितां नवसङ्ख्यककल्याणानुगतो. महों पृथिवों, किमेव पश्यति यदि त्वं महीपालस्तदा त्वत्कर्तृकरक्षणात् पूर्व खिन्नैव मही भवेत् न तु नव कल्याणकयुतेति तथाभूतां तां पश्येदेव, पश्यति च तां तथाविधामिति न गुणजन्यं त्वयि महीपाल इति वचनमित्यर्थः // 22 // त्वमेव शूरो नयपटुः रिपुविजयो निर्भीकश्च नैवमन्यः कश्चिदिति स्तौतिशतेष्वेकः शूरो यदि भवति कश्चिन्नयपटु स्तथा दीर्घापेक्षी रिपुविजयनिःसाध्वसपरः।