SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 293 सर्वजनप्रत्यक्षा, श्री लक्ष्मोः, विवदति कथं नैवं नियम इति कथं करोति, विवदनमेव दर्शयति, वृद्धा च वृद्धिगता च, यौवनगुणः वृद्धावस्थाप्रतिपक्षं यौवनात्ममगुणः, न च नैव, परुषितः परुषं कोपयुतः प्राप्तः यतो वृद्धामपि लक्ष्मी सेवते एव यौवनगुण इत्यर्थः // 20 // हे भगवन् ! त्वं स्वर्गधिपोऽसीति स्तौतिअन्तर्गृढसहस्रलोचनधरं भ्रूभेदवज्रायुधं कस्त्वां मानुषविग्रहं हरिरिति ज्ञातुं समर्थों नरः / यद्येते मघवन् ! जगद्धिततरास्त्वा वल्लभः स्वामिन ___ स्त्वदभ्रदेशपटुप्रकीर्णसलिला न ख्यापयेयुर्घनाः // 21 // अन्तYढेति / अन्तगूढसहस्रलोचनधरं भ्रभेदवज्रायुधं मानुषविग्रहं त्वां को नरो हरिरिति ज्ञातुं समर्थः ? हे भगवन् ! यदि एते जगद्धिततराः स्वामिनो वल्लभाः वदेशपटुप्रकीर्णसलिला घनाः त्वा न ख्यापयेयुः" इत्यन्वयः / अन्तगूढसहस्र. लोचनधरं अन्तगूढानि अन्तलानानि सहस्रलोचनानि सहस्रसङ्ख्यकनेत्राणि अन्तगूढसहस्रलोचनानि तानि बिभ्रतीति अन्तगूढसहस्रलोचनधरः तं अन्तगूढसहस्रलोचनधरम् , भ्रमेदवज्रायुधं ध्रुवो मेदो विकृतिविशेषः तदेव वज्रं भ्रभेदवज्र तदायुधं यस्य स भ्रभेदवज्रायुधः तं भ्रभेदवज्रायुधम् , मानुषविग्रहं मानुष्यं मनुष्यसम्बन्धि विग्रहं शरीरं यस्य स मानुषविग्रहस्तम्, त्वां भवन्तं, को नरः को मनुष्यः, हरिरिति इन्द्रोपममित्येवं, ज्ञातुमवगन्तुं, समर्थः तर्हि इन्द्रोऽहमिति कथं विज्ञायत इति पृष्ट वाह- हे मघवन् : हे इन्द्र ! यदि एते भनन्तरमेव प्रतिपाद्यमानाः, जगद्धिततराः समीहितफलदातृत्वेन विश्वस्येष्टतराः, स्वामिनः इन्द्रस्य, वल्लभाः प्रियाः, 'वल्लभ' इत्यस्य स्थाने 'वल्लभा' इति पाठं युक्तं मत्वाऽयमर्थः त्वद्भदेशपटुप्रकीर्णसलिलाः त्वज्रदेशे पटूनि प्रकीर्णानि सलिलानि येषां ते, तथा घनाः मेघाः, त्वा त्वां, न ख्यापयेयुः न प्रकटीर्युः, त्वत्प्रकटीकरणत एव इन्द्रोऽयमित्येवं ज्ञातोऽसि शनैरित्यर्थः // 21 //
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy