________________ 292 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / wwwwwwwvvwvvwvvwvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv त्व-तलयोः स्वार्थिकत्वाद् विष्णुस्वरूपा वा भवति, एतत् अनन्तरनिर्दिष्टं, लोक प्रत्यक्षं लोकानुभवसिद्धं, ततः किमित्याकाङ्क्षायामाह-यथा येन प्रकारेण, श्रीः लक्ष्मीः, क्षितिविषमतया कस्यचिद् भूमिः कियत्कालस्थायिनी भवति कस्यचि. दल्पकालस्थायिनी, कस्यचित् ततोऽन्यल्पतरकालस्थायिनीत्येवं या क्षितिविषमता तया, चञ्चला अस्थिरा नैकस्थानसुस्थिरा, आसीत् अभवत् , हे दयावत्स दयैव वत्सा पुत्री यस्य स दयावत्सः तत्संबोधने दयावत्स दयाजनक ! सैव लक्ष्मीः एव, अन्यप्रोतिदानात् अन्येभ्यः प्रोत्या दानात् , तव भवतः, भुजवलयान्तः पुरप्राप्तमानां भुजवलयमेवान्तःपुरं तत्र प्राप्तं मानं यया सा भुजवलयप्राप्तमाना तां, उर्वी पृथिवीं, दृष्ट्वा अवलोक्य, लघुसुचरिताहारसख्यं लघुः अगुरुपाकः सुचरितलक्षणो य आहारस्तेन यत्पृथिव्या सह सख्यं मित्रत्वं तत्, करोति, पृथिव्यास्तावानेवोपभोगो भवति धर्माराधनसंवलितो यावता पृथिवी न क्षीयते श्रीरपि तन्मैत्रीतस्तत्रैव निवसतीति चाञ्चल्यस्वभावं जहातीत्यर्थः // 19 // हे भगवन् अपूर्वेयं तव लक्ष्मीः यदुत वृद्धाऽपि युवत्येवेति स्तौतिप्रसूतानां वृद्धिः परिणमति निःसंशयफला पुरावादश्चैष स्थितिरियमजेयेति नियमः / जगवृत्तान्तेऽस्मिन् विवदति तवेयं नरपते ! कथं वृद्धा च श्रीन च परुषितो यौवनगुणः // 20 // प्रसूतानामिति / "प्रसूतानां वृद्धिः निस्संशयफला परिणमति एष पुरावादश्च इयं स्थितिरजेयेति नियमः, अस्मिन् जगवृत्तान्ते हे नरपते ! तवेयं श्रीविवदति कथं वृद्धा च यौवनगुणो न च परुषितः” इत्यन्वयः / प्रसूतानामुत्पन्नानां, वृद्धिः बृद्धता, निःसंशयफला संशयरहितफला यावत् समया भवित्री, अशेषा तावत् समया, परिणमति परिणतिमेति, न तु सा युवती भवति, एष पुरावादश्च अयं प्राचीनानां वादः इत्थं प्राचीनपरम्परातः आगतः प्रवाद इति यावत् , इयं स्थितिः वृद्धावृद्धैव न तु युवत्यपीति व्यवस्था, अजेया जेतुम शक्या इति नियमः इत्याकारकोऽविनाभावोऽव्यभिचार इति यावत्, अस्मिन् एतादृशे, जगवृत्तान्ते विश्वसमाचारे, हे नरपते हे राजन् ! तव भवतः, इयं