SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका। 291 यद्देवतानां रहस्यं तस्य भेदोऽन्यप्रकारः कथं कस्मात् , कृतः निर्मितो भवतेति, न वेद्मि न जानामि, किमन्यप्रकार इत्यपेक्षायामाह-हे नृप ! हे राजन् ! यथा येन प्रकारेण, त्वया वर्द्धमानेन प्रजापालनतत्परेण, युधि सङ्ग्रामे, हतः मारितः शत्रुः, विष्णोः व्यापकज्ञानात्मनः, परं पदं उत्कृष्टस्थानम्, उपैति प्राप्नोति, अतः अस्मात् कारणात्, असौ देदीप्यमानतया परिदृश्यमानः, तव सायकः बाणः. सिषित्सुः सन् , प्रणयसंसृतां प्रणयेन स्नेहेन संसृतां समीपमुपगतां, लक्ष्मीमविगणय्य श्रियम् अगयित्वा तिरस्कृत्येति यावत् , उरः शत्रोः हृदयं, क्षमं तं स्वप्रहारसमर्थ, करोति विदधाति अथवा 'तव सायकः क्षमम्' इत्यस्य स्थाने 'तव सायकक्षमम्' इति पाठः समीचीनः, तत्र असौ खड्गे प्रणयसंसृतां लक्ष्म मविगणय्य सङ्ग्रामे शत्रोश्शिरच्छे इनादि कर्तुं सुतीक्ष्णधारं खड्गं धारयति क्षत्रियोऽतस्तत्कर कमलगते खङ्गे सदैव प्रणयसंसृता देदीप्यमान कान्तिलक्षणा लक्ष्मी तामविगणय्य सङ्ग्रामे तदुपयोगमकृत्वा, सिषित्सुः परः, उरः स्वहृदयं तव सायकक्षमं तव बाणप्रहारयोग्य, करोति यथा तव बाणोत्खातहृदयो मृतः सन् विष्णोः परं पदमासादयतीत्यर्थः / / 18 / / तव सम्पर्कालक्ष्मीरन्यादृशी संवृत्तेत्युपदर्शयतिअन्योऽन्यावेक्षया स्त्रो भवति गुणवती प्रायशो विष्णुता वा ___ लोकप्रत्यक्षमेतत् क्षितिविषमतया चञ्चला श्रीर्यथाऽऽसीत् / संवान्यपीतिदानात् तव भुजवलयान्तःपुरप्राप्तमाना मुवीं दृष्ट्वा दयावत्स ! लघुसुचरिताहारसख्यं करोति // 19 // ____ अन्योऽन्यावेक्षयेति / "स्त्री अन्योऽन्यावेक्षया गुणवती भवति वा प्रायशो विष्णुता भवति एतल्लोकप्रत्यक्षं, यथा श्री: क्षितिविषमतया चञ्चला आसीत् , हे दयावत्स ! सैव अन्यप्रीतिदानात् तव भुजवलयान्तःपुर प्राप्तमानामुर्वी दृष्ट्वा लघुसुचरिताहारसख्यं करोति'' इत्यन्वयः / स्त्री कामिनी, अन्योऽन्यावेक्षया परम्परनिरीक्षणेन, गुणवती गुणशालिनी, भवति, इयमेतादृशी सतो एवं गुणभागिनी सम्जाता अतोऽहमपीत्थमाचरणात् तथा भविष्यामोत्युपात्तबुद्धिः गुणवती भवत्येन्यभिसन्धिः, वा अथवा, प्रायशः बाहुल्येन, विष्णुता व्यापनशीलता भवति,
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy