________________ 290 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / विघाटयति दिङ्मुखान्यवपुनाति चन्द्रप्रभां तथापि च दुरात्मनां शरदरोचकस्तद्विषाम् // 17 // प्रसादयतीति / “यद्यपि शरत् प्रावृषा कलुषिताम्भसो निममाः प्रसादयति पुनः नवसुखं कुमुदैः सरःसङ्गमं करोति, दिङ्मुखानि विघाटयति चन्द्रप्रभामवपुनाति, तथापि च 'तद्विषाम्' इत्यस्य स्थाने त्वद्विषाम्' इति पाठो युक्तः / त्वद्विषां दुरात्मनामरोचकः” इत्यन्वयः / शरत् आश्विन-कार्तिकमासद्वयात्मकः शरहतुकाल: प्रावृषा श्रावण-भाद्रवमासद्वयात्मकप्रावृऋतुना, कलुषिताम्भसः कलुषितानि पङ्काद्याविलानि अम्भांसि जलानि यासां ताः कलुषिताम्भसः पङ्कादिमलीमसजलास्वच्छप्रवाहाः, निम्नगाः गङ्गादिनदीः, प्रसादयति निर्मलजलमयत्वलक्षणप्रसन्नतां नयति, शरत्समये कुमुदाख्यपुष्पाणि विकसन्तोति हेतोः, पुनः नबसुखं नवीनं सुखं यस्मिन्नेवंभूतं, कुमुदैः कुमुदाख्यपुष्पैः, सरःसङ्गमं सरसि समागम, करोति विदधाति, दिङ्मुखानि दश दिशः, विघाटयति विशेषेण प्रकाशयति, चन्द्रप्रभां चन्द्रमसो दीप्तिम् , अवपुनाति अतिपुष्टिं नयति, तथापि च एवं बहुविधा विशिष्टगुणवत्त्वे सत्यपि पुनः, त्वद्विषां भवदाज्ञापरिपालनविमुखानां, दुरात्मनां दुष्टान्तःकरणानां, अरोचकः अनभिप्रेतः, यदि शरदागमिष्यति, तदाऽऽक्रमिष्यत्यस्मान् नूनं राजराजो भगवानिति मा भवतु शरदित्येवमरुचिविषय इत्यर्थः // 27 // भगवन्तं नृपं प्रकारान्तरेण स्तौतिन वेनि कथमप्ययं मुररहस्यभेदः कृत स्त्वया युधि हतः परं पदमुपैति विष्णोर्यथा / अतः प्रणयसंमृतामविगणय्य लक्ष्मीमसौ करोति तव सायकः क्षममुरः सिषुत्सुनृप ! // 18 // न वेनीति / "अयमपि सुररहस्यमेदः कथं कृत इति न वेनि, हे नृप ! यथा त्वया युधि हतः विष्णोः परं पदमुपैति, अतोऽसौ तव . सायकः सिषित्सुः प्रणयसंसृतां लक्ष्मीमविगणय्य उरः क्षमं करोति" इत्यन्वयः / अयमपि स्पष्टं प्रतीयमानोऽपि, सुररहस्यमेदः सङ्ग्रामे सम्मुखो हतो जनः स्वर्गमुपैतीति