________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 289 यः कश्चिद् भवद्भिः क्रोधोत्पादकत्वेन यद् यशः प्राप्नोति न तद् यशस्तव भक्तो नृपः प्राप्नोतीति महता समं विरोधो गुण एवेत्युपदर्शयतियत् प्राप्नोति यशस्तव क्षितिपते ! भ्रभेदमुत्पादयन् किं तत् त्वच्चरणोपसन्नमुकुटः प्राप्नोति कश्चिन्नृपः / इत्येवं कुरुते स वल्लभयशास्त्वच्छासनातिक्रम दोसूचितसम्मुखो न हि मृगः सिंहस्य न ख्याप्यते // 16 // यत् प्राप्नोतीति / “हे क्षितिपते ! तव भ्रभेदमुत्रादयन् यद् यशः प्राप्नोति त्वच्चरणोपसन्नमुकुटः कश्चिन्नृपः किं तत् प्राप्नोति, इति वल्लभयशाः स एवं त्वच्छासनातिक्रमं कुरुते, हि सिंहस्य दर्पासूचितसम्मुखो मृगो न ख्याप्यते न" इत्यन्वयः / हे क्षितिपते ! हे राजशेखर ! तव भवतः, भ्रभेदं क्रोधसूचकं भ्रकौटिल्यम् , उत्पादयन् जनयन्. जनः यद् यशः यां कीर्तिम् , प्राप्नोति आसादयति,त्वच्चरणोपसन्जमुकुटः भवत्पादपरिलुण्ठितशिरोमुकुटः, कश्चिन्नृपः कोऽपि राजा, किं तत् यशः, प्राप्नोति न प्राप्नोतीति, इति एतस्मात् कारणात्, वल्लभयशाः प्रियतमकीर्तिः यशोऽभिलाषीति यावत् , स त्वद्मभङ्गोत्पादकः पुरुषः, एवं यथा त्वद्मभङ्गो भवेत् तथा, त्वच्छासनातिक्रमं त्वदाज्ञोल्लङ्घनं, कुरुते करोति, हि यतः, सिंहस्य मृगपतेः, दासूचितसम्मुखः दर्पण बलाभिमानेन आसमन्तात् सूचितः सम्मुखः भावप्रधाननिर्देशाद् सम्मुखत्वं येन सः, मृगः हरिणः, न ख्याप्यते न लोकप्रसिद्धो भवतीति, न, निषेधद्वयात् ख्याप्यत एवेत्यर्थः // 16 // शरत्समये शत्रणां स्ववशे स्थापनार्थ नृपतिः स्वसैन्यपरिवृत आश्विनशुक्लदशम्यां यात्रां करोतीति लोकव्यवहृतिमनुसरन् भगवानपि नृपावस्थायां तथैव करोति स्मेत्यावेदनायाह प्रसादयति निम्नगाः कलुषिताम्भसः प्रावृषा - पुनर्नवसुखं करोति कुमुदैः सरःसङ्गमम् / .. 19