________________ 288 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिशिका / / एवं त्वदाज्ञानुसारेण प्रजापालनं विदधतां तेषां शतगुणा राष्ट्रलक्ष्मीरुपजायत इति हृदयम् // 14 // मानः सर्वै रेवं नृपतिभिः परित्यज्यते भवताऽपि स निर्मूलमुत्खन्यते इति मानापनोदनेन सर्वगुणरक्षणं भवति यतो मानं विना सर्वेऽपि गुणा निर्गुणा एव न च निर्गुणेषु स्वयमेवोपेक्षणीयेषु कस्यापि द्वेषः ईर्ष्या मात्सर्य वा समुल्लसति ततो न तदुच्छेदाय प्रवृत्तिरित्यभिप्रायवान् मानत्य जनं तत्खण्डनं च स्तौतिसर्वेऽप्येकमुखा गुणा गुणपति मानं विना निर्गुणा। इत्येवं गुणवत्सलैनृपतिभिर्मानः परित्यज्यते / नान्यश्चैष तवापि किं च भवता लब्धास्पदस्तेष्वसौं ___मत्तेनेव गजेन कोमलतनिर्मूलमुन्मूल्यते // 15 // सर्वेऽपीति / “गुणपतिं मानं विना एकमुखाः सर्वेऽपि गुणा निर्गुणा इत्येवं गुणवत्सलै» पतिभिस्तवापि मानः परित्यज्यते, अन्यश्च नैव, किच, तेषु लब्धास्पदोऽसौ मत्तेन गजेन कोमलतरुरिव भवता निर्मूलमुन्मूल्यते” इत्यन्वयः। गुणपति अन्यगुणपरिभवनं सह्यं भवति न तु मानपरिभवन, गुणा अपि मानमिता एव गुणतामनुभवन्तीति गुणेषु प्राधान्याद् गुणानामधिपति, मानं विना मानमन्तरेण, एकमुखा मानकमुखा मानप्रधानाः, सर्वेऽपि गुणाः, निर्गुणा गुणरहिताः, इत्येवं एतस्मात् कारणात् , गुणवत्सलैः गुणा न विनश्यन्तु अप्येव सर्वदा तिष्ठन्वित्येवं गुणस्नेहशालिभिः, नृपतिभिः नरपतिभिः, तवापि त्वत्सम्बन्ध्यपि, मानः, परित्यज्यते दूरीक्रियते, सर्वोत्कृष्टपुरुषोत्तमसम्बन्धिमानपरित्यागेऽन्यसम्बन्धिमानपरित्यागे किमु वक्तव्यम् , मानपरित्यजनं गुणानां निर्गुणसम्पादनद्वारा परम्परया गुणरक्षणस्वरूपमेवेति गुणवत्सलत्वम्, अन्यः अन्यो गुणो नैव परित्यज्यते न हीयते, किञ्च एकेऽपि च, तेषु गुणवत्सलेषु नृपतिषु, लब्धास्पदः लब्धस्थानः, असौ मानः, मत्तेन गण्डस्थलपरिस्खलद्दानजलेन, गजेन हस्तिना, कोमलतरुरिव सुकुमारवृक्षो यथा निर्मूलमुन्मूल्यते तथा, भवता राजशेखरेण, निर्मूलं यथा स्यात् तथा, उन्मूल्यते स्वाधारमूलस्थानादपाक्रियते इत्यर्थः // 15 //