SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका / 287 द्वारारक्षाः पुरे. लोकानां प्रवेशनिर्गमनाथं वल्पितं द्वारं पुर द्वारं तद् भासमन्ताद् रक्षन्तति पुर द्वारारक्षाः पुर द्वार पाला भवन्ति इत्येवमतिसुन्दरं जायत इत्यर्थः // 23 // अन्ये राआनः सर्वथा शनुदेशोन्मूलनाय प्रवृत्ता अपि न तथा कर्तुं समर्थाः किन्तु संक्षिप्तलक्ष्मीवितानानेव तान् करोति, भवान् पुनः शत्रुवंशान् सर्व थोन्मूलितपूर्वावस्थात: शतगुणां लक्ष्मीं करोति भवानेव सर्वोत्कृष्ट इति स्तोतिनिर्मुलोच्छन्नमूला भुजपरिघपरिस्पन्ददृप्तैनरेन्द्रैः संक्षिप्तश्रीविताना मृगपतिपतिभिः शत्रुदेशाः क्रियन्ते / किन्त्वेतद् राजवृत्तं स्वरुचिपरिचयः शक्तिसंपन्नतेयं भक्त्वा यच्छक्रवंशानुचितशतगुणान् राष्ट्रलक्ष्म्याः करोषि // 14 // निमूलोच्छिन्नमूला इति / "मृगपतिपतिभिः भुजपरिघरिस्पन्दहप्तैनरेन्द्रैः निर्मूलोच्छि नमूलाः शत्रुदेशाः संक्षिप्तश्रीवितानाः क्रियन्ते, किन्तु एतद् राजवृत्तं स्वरुचिपरिचयः इयं शक्तिसम्पन्नता, यच्छ गुवंशान् भक्तवा राष्ट्रलक्ष्न्याः उचितशतगुणान् करोषि'' इत्यन्वयः। मृगपतिपतिभिः पराक्रमेण मृगपति सिंहमपि स्वाधीन कुर्वन्तीति मृगपतिपतयस्तैः, भुजपरिघपरिस्पन्ददृप्तैः भुजावेव परिघौ भुजपरिघौ तयोर्थद्दल द्रेकाच्छभिः समं योद्धु परिस्पन्दः स्फुरणं तेन दृाते. बलोन्मत्तैः, नरेन्द्रैः नृपतिभिः, निलोच्छिन्नमूलाः निर्मूलं यथा स्यात् तथा उच्छिन्नं मूलं येषां ते निर्मू लोच्छिन्नमूलाः, शत्रुदेशाः रिपूणां देशा विषयाः, संक्षिप्तश्रीवितानाः संक्षिप्तं लक्ष्मीवितानं येषां ते संक्षिप्तलक्ष्म वितानाः, क्रियन्ते नहि सर्वथाशत्रुदेशोन्मूलनं भवति किन्तु यो यो देशभागो विजितो भवति तत्तद्भागपरिहारेण स्वत्वं तत्तद्देशेषु शत्रणां समस्त्येवेति न्यूनधनसमृद्धिमत्त्वमेव तत उपजायते, किन्तु एतत् अनन्तराभिधीयमानं हे राजन् !, राजवृत्तं राज्ञस्तव वृत्तं वृत्तान्तं, स्वरुचिपरिचयः स्वरूचेः स्वेच्छायाः परिचयः प्रकाशनम्, इयं तव, शक्तिसम्पन्नता सामर्थ्यपरिपूर्णता, यत् यस्मात् , शत्रुवंशान् भङ्क्त्वा उन्मूल्य, राष्ट्रलक्ष्म्याः राज्यश्रियः उचितशतगुणान् पूर्वापेक्षया समुचितशतगुणान् , करोषि तव प्रभावाच्छत्रवः शत्रुभावं परित्यज्य त्वदाज्ञाकारिण एव संवृत्ताः एतावन्मात्रेणैव शत्रुवंशभञ्जनं तत
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy