SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 286 दिवाकरकृता किरणावलीकलिता एकादशी द्वात्रिंशिका अद्य इदानी, सा अनेकनृपसाधारणप्रिया पृथिवी, ईर्ष्यामत्सरितेन तथाभूतानल्पनृपैकागतोपभोगदोषासहिष्णुता प्रभवमात्सर्यवता, भवतैव त्वयैव, आत्मा स्वाङ्कम् , आरोपिता स्थापिता, त्वत्परितोषभावितगुणैः भवत्सन्तोषपरिशीलितगुणैः, शेषैः अवशिष्ट पैः, गोपालवत् गोपालैौरीक्षणानयुक्तजनैर्यथागौः पाल्यते रक्ष्यते इत्यर्थः / / 12 // रिपून् प्रति पराक्रमगुणमस्य वर्णयतिगुहाध्यक्षाः सिंहाः प्रमदवनचरा द्वीपि-शार्दूलपोताः कराग्रैः सिच्यन्ते वनगजकलभैर्दीर्घिकातीरवृक्षाः। पुरद्वारारक्षा दिशि दिशि महिषा यूथगुल्माग्रशूराः रुषानुध्यातानामतिललितमिदं जायते विद्विषां ते // 13 // गुहाध्यक्षा इति / "ते रुषानुध्यातानां विद्विषामतिललितमिदं जायते सिंहा गुहाध्यक्षाः द्वीपिशार्दूलपोताः प्रमदवनचराः दीर्घिकातीरवृक्षाः वनाजकलभैः कराग्रैः सिच्यन्ते, यूथगुल्माग्रशूरा महिषा दिश दिशि पुरद्वारारक्षाः' इत्यन्वयः। हे राजन् , ते तव, रुषानुध्यातानां क्रोधेन स्मृतिपथमुपागतानां क्रोधविषयीकृताना मिति यावत, विद्विषां शत्रणाम् , अतिललितं अत्यन्त सुन्दरम्, इदम् अनन्तरमेवाधीयमानं, जायते भवति, भवान् यान् प्रति क्रुद्धो भवति ते शत्रवस्तदेव विनष्टा भवन्ति तत्पुरं वनमिवोपजायते वनविहारिणः सिंहादयस्तत्रैव स्वं स्वं स्थानं परिकल्प्य तिष्ठन्तीत्येवातिललितं दर्शयति, सिंहाः केसरिणः, गुहाध्यक्षाः या या गुहा धनरक्षणकृते विहितास्तेषामध्यक्षा अधिपतयो भवन्ति, द्वोपिशार्दूलपोताः व्याघ्रसिंहसुताः, प्रमदवनचरा प्रमदानां स्त्रीणां क्रीडार्थ कल्पितं वनं प्रमदवनं नगरसन्निहितमुपवनं तत्र चरन्ति विहरन्त ति प्रमदवनचरा भवन्ति, दीर्घिकातीरवृक्षाः राजमहिष्यादीनां प्रासादातिसन्निहित एव देशे खानिता लध्वी पुष्करिणी दीर्घिकास्तस्यास्तीरे तटे रोपिता वृक्षास्तरवो दीर्घिका. तीरवृक्षाः, वनगजकलभैः आरण्यकहस्तिपोतैः, कारागैः शुण्डागः, सिच्यन्ते सिञ्चिता भवन्ति, यूथगुल्माप्रशूराः बहूनां महिषाणां समुदायो यूथः तद्गुल्मस्य तत्पुञ्जस्य पुरोगामित्वादग्रशूराः, महिषाः, दिशि दिशि चतुर्दिक्षु, पुर
SR No.004300
Book TitleDwatrinshad Dwatrinshika
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherVijaylavanyasuri Granthmala
Publication Year1977
Total Pages694
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy