________________ दिवाकरकृता किरणावलीकालता एकादशी द्वात्रिंशिका 285 चित्रं किमत्र यदि तस्य तवैव राज __न्नाज्ञां वहन्ति वसुधाधिपमौलिमालाः // 11 // गन्धद्विप इति। “गन्धद्विपो दानेन पङ्कजेभ्यो मधुकरानिव यदि प्रवीरान् रिपुगणान् यो हरसि अत्र तस्य किं चित्रम् , हे राजन् ! वसुधाधिपमौलिमालास्तवैवाज्ञां वहन्ति" इत्यन्वयः / गन्धद्विपः गलगण्डदानजलो मदोन्मत्तो गजः दानेन गन्धवतक्षरद्गण्डजलेन, पङ्कजेभ्यः, पद्मभ्यः, मधुकरानिव भृङ्गान् मधुलोलुपान् यथा हरति तथा, यदि प्रवीरान् युद्धकर्मनिष्णातान् शूरान् , रिपुगणान् शत्रुगणान् त्वम्. हरसि स्वाधीनान् करोषि, अत्र अस्मिन् स्ववशस्थापनकर्मणि, किं चित्रं न किमप्याश्चर्यम् , यतः हे राजन् हे राजशेखर ! वसुधाधिपमौलिमालाः पृथवीपतिमुकुटमालाः, तवैव भवत एव, आज्ञां हिताहितोपदेशलक्षणाम् , वहन्ति स्त्रोकुर्वन्ति, भवदादेशपरायणाः सर्वेपि राजान इत्यर्थः // 22 // __ पूर्वावस्थामवलम्ब्यानन्यवसुधाधिपत्वं भगवतो वर्णयतिएकेयं वसुधा बहूनि दिवसान्यासीद् बहूनां प्रिया वस्याऽन्योऽन्यसुखाः कथं नरपते ! ते भद्रशीला नृपाः। ईर्ष्यामत्सरितेन साऽद्य भवतैवात्माङ्कमारोपिता शेषैस्वत्परितोषभावितगुणैगोपालवत् पाल्यते // 12 // एकेयमिति / 'वस्या' इत्यस्य स्थाने 'वेश्या' इति पाठो युक्तः / “एकेयं वसुधा बहूनि दिवसानि बहूनां प्रियाऽऽसीत् , हे नरपते ! ते वेश्याऽन्योऽन्यसुखा नृपाः कथं भद्रशीलाः अद्य सा ईर्ष्यामित्सरितेन भवतैवात्माङ्कमारोपिता, त्वत्परितोषभावितगुणैः शेषैः गोपालवत् पाल्यते” इति सम्बन्धः / एकाऽद्वितीया, इयं परिदृश्यमाना, वसुधा पृथिवो, बहूनि दिवसानि बहुदिवसपर्यन्तं, बहूनां . नृपाणां, प्रिया पत्नी, आसीत् अभूत्, हे नरपते ! राजराज ! ते निरुक्तपृथिवीस्वामिनः, वेश्याऽन्योन्यसुखाः अनेकजनोपभोग्यपण्यानामुपभोगप्रभवपरस्परसुखभाजः, नृपाः राजानः, कथं भद्रशीलाः कथं भद्रस्वभावाः कथञ्चितू,